________________
[१०८]
शब्दानुशासनस्य
परिस्थस्य रो घादौ परे लू वा स्यात् । पालघः, परिघः। पल्यङ्कः पर्यङ्कः, पलियोगः, परियोगः ॥ १०३ ॥ ऋफिडादीनां श्चलः | २ | ३ | १०४ |
एषामृ-र लृ-लौ डस्य च ल् वा स्यात् । ऋफिङः, लृफिलः । ऋतकः, लृतकः । कपरिका, कपलिका ॥१०४॥.. जपादीनां पो वः | २ | ३ | १०५ |
एषां पो वो वा स्यात् । जवा, जपां । पारावतः, पारापतः ।। १०५ ।।
इत्याचार्य श्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य तृतीयपादः समाप्तः ॥ २ । ३ ॥
[ इति षत्व - णत्व प्रकरणम् समाप्तम् ]