________________
स्वोपज्ञलघुवृत्तिः [१०७] :: पाठे धात्वादेर्णो नः । २ । ३ । ९७ । ___ पाठे धात्वादों नः स्यात् । नयति। पाठ इति किम् ? णकारीयति । आदेरिति किम् ? रणति ॥ ९७ ॥
षः सोऽष्टयै-ष्ठिव-ध्वष्कः ।२।३ । ९८॥ पाठे धात्वादेः षः सःस्यात्, नतुष्ट्यैष्ठिवष्वष्का सम्बन्धी स्यात् । सहते । आदेरित्येव ? लषति । ष्टयादिवर्जनं किम् ? ष्टयायति, ठीव्यति, ध्वष्कते ॥ ९८ ॥ ... ऋ-रल-लं कृपोऽकृपीटादिषु । २।३ । ९९।
कृपेत लत्, रस्य च ल् स्यात्, न तु कृपीटादिविषयस्य । क्लृप्यते, क्लप्तः, कल्पते, कल्पयति । अकृपीटादिविति किम् ? कृपीटा, कृपाणः ॥ ९९ ॥
उपसर्गस्यायो । २ । ३ । १०० ... उपसर्गस्थस्य रस्याऽऽयौ धातौ परे ल् स्यात् । प्लायते, प्लत्ययते ॥ १० ॥
__ो यङि । २ । ३। १०१ । यडि परे गिरते रो र स्यात् । निजेगिल्यते ॥१०१॥
नवा स्वरे । २।३ । १०२ । - यो रः स्वरादौ प्रत्यये परे विहितस्य ल वा स्यात् । गिलति, गिरति, निगाल्यते, निगार्यते। विहितविशेषणं किम् ? गिरः ॥ १०२॥
परेोऽक-योगे । २ । ३ । १०३ ।