________________
स्वोपज्ञलघुवृत्तिः
[१२३]
'भोज - सूतयोः क्षत्रिया- युक्त्योः । २ । ४ । ८१ । अनयोरन्तस्य यथासंख्यं क्षत्रियायुवत्योः स्त्रियां ष्यः स्यात् । भोज्या क्षत्रिया, सूत्या युवतिः । अन्यातु भोजा, सुता ॥ ८१ ॥
दैवयज्ञि-शौचि वृक्षि-सात्यमुग्रि-काण्ठेविडेव | २१४१८२ ॥ referrari स्त्रियामन्तस्य ष्यो वा स्यात् । बैंकयज्ञ्या, देवयज्ञी | शौचिवृक्ष्या, शौचिवृक्षी । सात्यमुग्रया, सात्यमुग्री । काण्ठेविया, काण्ठेविद्धी ॥ ८२ ॥ ष्या पुत्र- पत्योः केवलयोरीच् तत्पुरुषे । २ । ४ । ८३ ।
मुख्याssवन्तस्य यः पुत्र- पत्योः केवलयोः परयोस्तत्पुरुषे समासे ईच् स्यात् । कारीषगन्धीपुत्रः, कारीषगन्धीपतिः । ष्येति किम् ? इभ्यापुत्रः । केवलयोरिति किम् ? कारीषगन्ध्यापुत्र कुलम् ॥ ८३ ॥
बन्धौ बहुव्रीहौ । २ । ४ । ८४ ।
मुख्याssवन्तस्य यो बन्धौ केवले परें बहुव्रीहावीच् स्यात् । कारीषगन्धीबन्धुः । केवल इत्येव ? कारीषगन्ध्याबन्धुकुलम् । मुख्य इत्येव ? अतिकारीषगन्ध्या बन्धुः॥८४॥ मातमातृमातृ के वा । २ । ४ । ८५ |
मुख्याssवन्तस्य ष्यो मातादिषु केवलेषु परेषु बहुव्रीहावीज वा स्यात् । कारीषगन्धीमातः, कारीषगन्ध्यामातः । कारीषगन्धीमाता । कारीषगन्ध्यामाता । कारीषगन्धीमातृकः, कारिषगन्ध्यामातृकः ।। ८५ ।।
अस्य ङ्घां लुक् | २ | ४ | ८६ | ड्यां परे ऽस्य लुक् स्यात् । मद्रचरी ॥ ८६ ॥