SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [१०१] णम्, आम्रवणम् , शरवणम्, इक्षुवणम्, प्लक्षवणम् , पीयूक्षावणम् ॥ ६६॥ दि-त्रिस्वरौषधि-वृक्षेभ्यो नवानिरिका दिभ्यः । २।३ । ६७ ।। द्विस्वरेभ्यस्त्रिस्वरेभ्यश्चेरिकादिवर्जेभ्य ओषधि-वृक्षवाचिभ्यः परस्य वनस्य नो ण् वा स्यात् । दुर्वावणम् , दुर्वा: वनम् ।माषवणम् , माषवनम् । नीवारवणम्, नीवारवनम् । वृक्षः- शिवणम् , शिग्रुवनम् । शिरीषवणम्, शिरीषवनम् । इरिकादिवर्जनं किम् ? इरिकावनम् ॥ ६७ ॥ गिरि-नद्यादीनाम् । २ । ३ । ६८। एषां नो.ण वा स्यात् । गिरिणदी, गिरिनदी । तुर्यमाणः, तुर्यमानः॥ ६८॥ पानस्य भावकरणे । २ । ३ । ६९ । पूर्वपदस्थाद्रादेः परस्य भावकरणार्थस्य पानस्य नो ण् वा स्यात्। क्षीरपाणं, क्षीरपानं स्यात् । कषायपाणः, कषायपानः कंसः॥ ६९ ॥ ... देशे । २ । ३ । ७०। पूर्वपदस्थाद्रादेः परस्य देशविषयस्य पानस्य नो ण् नित्यं स्यात् । क्षीरपाणा उशीनराः। देश इति किम् ?. क्षीरपाना गोदुहः ॥ ७० ॥ ग्रामानान्नियः । २।३।७१ । . आभ्यां परस्य नियो ण् स्यात्।ग्रामणी, अग्रणीः॥७१॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy