________________
[१०२] हैमशब्दानुशासनस्य
वाह्याद्वाहनस्य । २ । ३ । ७२ । वाह्यवाचिनो रादिमतः पूर्वपदात् परस्य वाहनस्य नोण स्यात्। इक्षुवाहणम्। वाह्यादिति किम् ? सुरवाहनम्॥७२॥
अतोऽह्नस्य । २।३ । ७४ । रादिमतोऽदन्तात् पूर्वपदात् परस्याहस्य नोण स्यात् । पूर्वाह्नः । अत इति किम् ? दुरह्नः । अह्नस्येति किम् ? दीघोही शरत् ॥ ७३॥
चतुस्नेहायनस्य वयसि । २ । ३ । ७४ ।
आभ्यां पूर्वपदाभ्यां परस्य हायनस्य नोण् स्यात्, वयसि गम्ये । चतुर्हायणो वत्सः । त्रिहायणी वडवा । वयसीति किम् ? चतुहायना शाला ॥ ७४॥ वोत्तरपदान्तनस्यादेरयुव-पकाह्नः । २।३।७५।
पूर्वपदस्थाद्रादेः परस्य उत्तरपदान्तभूतस्य नागमस्य स्यादेश्व नो ण् वा स्यात्, चेद् युवन् पक्वाहनसम्बन्धी न स्यात् । व्रीहिवापिणी,व्रीहिवापिनौ। माषवापाणि, मा. पवापानि। व्रीहिवापेण व्रीहिवापेन। युवादिवर्जनं किम् ? आर्ययूना, प्रपक्वानि । दीर्घाही शरत् ।। ७५॥ .
कवगैकस्वरवति । २।३।७६ । पूर्वपदस्थाद्रादेः परस्य कवर्गवत्येकस्वरवति चोत्तरपदे सति, उत्तरपदान्तस्य नागमस्य स्यादेश्व नो ण् स्यात् , न चेदसौ पक्वस्य । स्वर्गकामिणौ, वृषगामिणौ। ब्रह्महणौ। यूषपाणि । अपक्वस्येत्येव, क्षीरपक्वेन ।। ७६ ॥ अदुरुपसर्गान्तरो ण-हिनु-मीनाऽऽनेः' ।२।३१७७ . दुर्व|पसर्गस्थादन्तःशब्दस्थाच रादेः परस्यैषां नोण् १ सप्तम्यर्थविहितस्य ‘आनिव्' इति प्रत्ययस्य । सं०