SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ [१००] हैमशब्दानुशासनस्य सुगः स्य-सनि । २ । ३ । ६२ । सुनोतेः सः स्ये सनि च ष् न स्यात् । अभिसोष्यति । सुसूषतेः क्विा सुसूः ॥ ६२॥ रघुवर्णाद् नो ण एकपदेऽनन्त्यस्याऽल-च-ट-त वर्ग-शसाऽन्तरे । २ । ३ । ६३ । एभ्यः परस्यैभिःसहकस्मिन्नेव पदे स्थितस्यानन्त्यस्यनो णः स्यात्, लचटतवर्गान् शसौ च मुक्त्वाऽन्यस्मिन्निमित्तकार्यिणोरन्तरेऽपि । तीर्णम् । पुष्णाति । नृणाम्, नृणाम् । करणम् । वृंहणम् । अर्केण । एकपद इति किम् ? अग्निर्नयति, चर्मनासिकः । अनन्त्यस्येति किम् ? वृक्षान्। लादिवर्जनं किम् ? विरलेन, भूर्च्छनम् , दृढेन, तीर्थेन , रशना, रसना ॥ ६३ ॥ पूर्वपदस्थाद् नाम्न्यगः । २ । ३ । ६४ । गन्तवजपूर्वपदस्थाद्र-वर्णात् परस्योत्तरपदस्थस्य नो ण् स्यात्, संज्ञायाम् । गुणसः, स्वरणाः, शूर्पणखा । नाम्नीति किम् ? मेषनासिकः । अग इति किम् ? ऋगयनम् ॥६४॥ नसस्य । २ । ३।६५। पूर्वपदस्थाद्र-वर्णात् परस्य नसस्य नो ण् स्यात् । प्रणसः ॥ ६५ ॥ निष्पाऽग्रेऽन्तः-खदिर कार्याऽऽम्र-शरेक्षु-प्लक्ष पीयूक्षाभ्यो वनस्य । २ । ३ । ६६ । . निरादिभ्यः परस्य वनस्य नो ण् स्यात् । निर्वणम्, प्रवणम्, अग्रवणम्, अन्तर्वणम्, खदिरवणम्, कार्यव
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy