SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ [ ९९ ] स्वोपज्ञलघुवृत्तिः वेः । २ । ३ । ५४ । वेः परयोः स्फुर-स्फुलोः सः षू वा स्यात् । विष्फुरति, विस्फुरति । विष्फलति विस्फुलति ॥ ५४ ॥ स्कम्नः । २ । ३ । ५५ । वेः स्वभ्नः सः षू नित्यं स्यात् । विष्कभ्नाति ॥ ५५ ॥ निर्दुः-सु-वेः सम-सूतेः । २ । ३ ॥ ५६ ॥ | | एभ्यः परयोः समः सूत्योः सः पू स्यात् । निःषमः, दुःषमः सुषमः, विषमः । निःषूति, दुःषूति, सुषूतिः, विषूतिः ॥५६॥ अवः स्वपः । २ । ३ | ५७ | निर्दुः-सु-विपूर्वस्य वहीनस्य स्वपेः सः ष् स्यात् । निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः । अव इति किम् ? दुःस्वनः || ५७ ॥ प्रादुरुपसर्गाद्यस्वरेऽस्तेः । २ । ३ । ५८ । प्रादुरुर्गस्थाच नाम्यादेः परस्यास्तेः सो यादौ स्वरादौ च परे ष् स्यात् । प्रादुःष्यात्, विष्यात्, निष्यात् । प्रादुःषन्ति, विषन्ति, निषन्ति । यस्वर इति किम् ? प्रादुःस्तः ॥ ५८ ॥ नस्सः । २ । ३ । ५९ । कृतद्वित्वस्य सस्य ष् न स्यात् । सुपिस्स्यते ॥ ५९ ॥ सिचो यङि । २ । ३ । ६० । सिचः सो यङि प् न स्यात् । सेसिच्यते ॥ ६० ॥ गतौ सेधः । २ । ३ । ६१ । गत्यर्थस्य सेधः सः प् न स्यात् अभिसेधति गाः ताविति किम् ? निषेधति ॥ ६१ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy