SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ [ ९८ ] हैमशब्दानुशासनस्य sटि सति प् वा स्यात् । पयष्टोत् पयस्तौत् । न्यष्टौत्, न्यस्तौत् । व्यष्टौत्, व्यस्तौत् । पर्यष्वजत, पर्यस्वजत् । न्यध्वजत्, न्यस्वजत् । व्यष्वजत्, व्यस्वजत् । पर्यषीव्यत्, पर्यसीव्यत्, न्यषीव्यत्, न्यसीव्यत् । व्यषीव्यत्, व्यसीव्यत् । पर्यषहत, पर्यसहत । न्यषहत, न्यसहत । व्यषहत, व्यसहत । पर्यष्करोत् पयस्करोत् । असोङसिवू सहेत्येव ! पर्यसोढयत् । पर्यसीषीवत् । पर्यसीषहत् ॥ ४८ ॥ निरभ्यनोश्च स्यन्दस्याऽप्राणिनि । २ । ३ । ५० । एभ्यः परिनिवेश्च परस्याप्राणिकर्तृकार्थवृत्तेः स्यन्दः सः घ् वा स्यात् । निःष्यन्दते, निःस्यन्दते । अभिष्यन्दते, अभिस्यन्दते । अनुष्यन्दते, अनुस्यन्दते । परिष्यन्दते, परिस्यन्दते । निष्यन्दते निस्यन्दते । विष्यन्दते, विस्यन्दते तैलम् । अप्राणिनीति किम् ? परिस्यन्दते मत्स्यः ॥५०॥ वैः स्कन्दोऽक्तयोः | २ | ३ | ५१ | विपूर्वस्य स्कन्दः सः ष् वा स्यात्, न चेत्, क्तक्तवतू स्याताम् । विष्कन्ता, विस्कन्ता । अक्तयोरिति किम् ? विस्कन्नः, विस्कन्नवान् ॥ ५१ ॥ परेः । २ । ३ । ५२ । परेः स्कन्दः सः प् वा स्यात् । परिष्कन्ता, परिस्कन्ता । परिष्कन्नः, परिस्कन्नः ॥ ५२ ॥ निर्नेः स्फुर - स्फुलोः | २ | ३ | ५३ | आभ्यां परयोः स्फुर-स्फुलोः सः ष्वा स्यात् । निःष्फुरति, निःस्फुरति निष्फुरति निस्फुरति । निःष्फुलति, निःस्फुलति, निष्फुलति, निस्फुलति ॥ ५३ ॥ "
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy