________________
स्वोपज्ञलघुवृत्तिः [९७] . सदोऽप्रतेः परोक्षायां त्वादेः । २।३ । ४४।
प्रतिव|पसर्गस्थानाम्यादेः परस्य सदःसो द्वित्वेऽप्यट्यपि स्यात्, परोक्षायांतुव्युक्तौ सत्यामादेः पूर्वस्यैव। निषीदति, विषापद्यते, व्यपीदत्। परोक्षायां त्वादेरेव ? निषसाद । अप्रतेरिति किम् ? प्रतिसीदति ॥ ४४ ॥
स्वञ्जश्च । २।३।४५। उपसर्गस्थानाम्यादेः परस्य स्वञ्जः सो द्वित्वेऽप्यट्यपिष् स्यात्, परोक्षायां त्वादेरेव । अभिष्वजते,अभिषिष्वक्षते, प्रत्यष्यजत् , परिषस्वधजे ॥ ४५ ॥ ... परि-नि-वेः सेवः । २३ । ४६।।
पर्याधुपसर्गस्थानाम्यादेः परस्य सेवतेः सो द्वित्वेऽप्यट्यपि ष् स्यात् । परिघेवते, परिषिषेवे, परिषिषेविषते, पर्यघेवत, निषेवते, विषिषेवे ॥ ४६॥
सय-सितस्य । २ । ३ । ४७ । परि-नि-वे परस्य सय-सितयोः सः स्यात् । परिषयः, निषयः, विषयः। परिषितः, निषितः, विषितः ॥ ४७ ॥
असोङसिवू-सह-स्सटाम् । २।३।४८ परि-नि-विभ्यः परस्य सिवू-सहोः 'स्सटश्च सः स्यात्, .न चेत् सिवूसही सोडविषयौ स्याताम् । परिषीव्यति, निषीव्यति, विषीव्यति । परिषहते, निषहते, विषहते। परिष्करोति, विष्किरः। असोडेति किम् ? परिसोढः । मा परिसीषिवत् । मा परिसीषहत् ॥४८॥
स्तु-स्व.श्चाटि नवा । १ । ३ । ४९। परि-निवेः परस्य स्तु-स्वोरसोङसिवू-सह-स्सटांचसो१ सम्परेः कृगः स्सद् ॥ ४-४-९१ ॥ इति सूत्रविहितस्य स्सदः । सं०