________________
[९६] हैमशब्दानुशासनस्य स्था-सेनि-सिध-सिच-सञ्जां द्वित्वेऽपि।२।३।४० ।
उपसर्गस्थानाम्यादेः परेषांस्थादीनांसः स्यात्, द्वित्वेऽप्यस्यापि । अधिष्ठास्यति, अधितष्ठी, अध्यष्ठात् । अभिषेणयति, अभिषिषेणयिषति, अभ्यषेणयत् । प्रतिषेधति, प्रतिषिषेधिषति, प्रत्यषेधत् ।अभिषिञ्चति, अभिपिषिक्षति, अभ्यषिश्चत् । अभिषजति, अभिषषञ्ज, अभ्यषजत् ॥ ४०॥
अङ-प्रतिस्तब्ध-निस्तब्धे स्तम्भः ।२।३।४१।
उपसर्गानाम्यादेः परस्य स्तम्भस्सो द्वित्वेऽप्यटयपिष् स्यात्, न चेत् स्तम्भिर्डे प्रतिस्तब्धनिस्तब्धयोश्च स्यात् । विष्टभ्नाति, वितष्टम्भ, प्रत्यष्टभ्नात् । डादिवर्जनं किम् ? व्यतस्तम्भत्, प्रतिस्तब्धः निस्तब्धः ॥४१॥
अवाचाऽऽश्रयोर्जा विदूरे । २ । ३ । ४२। अवादुपसर्गात् परस्य स्तम्भः स आश्रयादिषु गम्यमानेषु द्वित्वेऽप्यट्यपि ष् स्यात्, उविषयश्चेत् स्तम्भिर्न स्यात् । आश्रय आलम्बनम् । दुर्गमवष्टभ्नाति, अवतष्टः म्भ, अवाष्टभ्नाद्वा । ऊर्ज औजित्यम् । अहो! वृषभस्यावष्टम्भः। अविदूरमासन्नमदूरासन्नं च । अवष्टब्धा शरत्, अवष्टब्धा सेना। चोऽनुक्तसमुच्चये, तेन उपष्टम्भः। अङ इत्येव ? अवातस्तम्भत् ॥ ४२ ॥
व्यवात् स्वनोऽशने । २।३ । ४३ । .
वेरवाचोपसर्गात् परस्य स्वनः सोऽशने भोजने द्वि त्वेऽप्यट्यपि ष् स्यात् । विष्वणाति, अवष्वणति, विषष्वाण, अवषष्वाण, व्यवणत्, अवाष्वणत्, व्यषिवणत्, अवाषिष्वणत् । अशन इति किम् ? विस्वनति मृदङ्गः ॥४३॥