________________
स्वोपज्ञलघुवृत्तिः [९५] . निसस्तपेऽनासेवायाम् । २ । ३ । ३५ ।
निसः सस्तादौ तपतौ परे ष् स्यात्, पुनःपुनःकरणाsभावे। निष्टपति स्वर्ण-सकृदग्निं स्पर्शयतीत्यर्थः। तीत्येव ? निरतपत् ॥ ३५ ॥
घस्-वसः। २।३ । ३६ । नाम्यादेः परस्य घस्वसोःसः स्यात् । जक्षुः. उषितः ॥ ३६॥ णि-स्तोरेवाऽस्वद-स्विद-सहः पणि । २ । ३ । ३७ ।
स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सो नाम्यादेः परस्य षत्वभूते सनि ष् स्यात् । सिषेवयिषति,तुष्टूपति। स्वदादिवर्जनं किम् ? सिस्वादयिषति, सिस्वेदयिषति, सिसाहयिषति। एवेति किम् ? सुसूषति। षणीति किम् ? सिषेव । षत्वं किम् ? सुषुप्सति ॥३७ ॥
- सजेर्वा । २।३।३०। .... ण्यन्तस्य सजेन म्यादेः परस्य सः षणि ष् वा स्यात्। सिषञ्जयिषति, सिसञ्जयिषति ॥ ३८ ॥ - उपसर्गात् सुग-सुव-सो-स्तु-स्तुभोऽट्यप्यदित्वे
।२।३ । ३९। द्व्युक्ताभावे सुनोत्यादेः स उपसर्गस्थान्नाम्यादेः परस्य ष् स्यात्, अड्व्यवधानेऽपि । सुम्, अभिषुणोति, नि:षुणोति, पर्यषुणोत् । सुव, अभिषुवति, पर्यषुवत् । सो, अभिष्यति, पर्यष्यत् । स्तु, अभिष्टौति, दुष्टवम्, पयष्टौत् । स्तुभ, अभिष्टोभते, पर्यष्टोभत । अद्वित्व इति किम् ? अभिमुसूषति ॥ ३९ ॥