________________
[ ९४ ]
हैमशब्दानुशासनस्य
कुष्ठलम्, शमिष्ठलम्, परिष्टलम् ॥ २८ ॥ कपेर्गोत्रे । २ । ३ । २९ ॥
कपेः परस्य स्थलस्य सः समासे ष् स्यात्, गोत्रे वाच्ये । कपिष्ठल ऋषिः ॥ २९ ॥ गोऽम्बाऽऽम्ब-सव्याप-द्वि-त्रि-भूम्यमि-शेकु शङ्कु-क्वङ्गु मञ्जि-पुञ्ज बर्हिः परमे दिवेः स्थस्य |२|३|३०|
एभ्यः परस्य स्थस्य सः समासे प् स्यात् । गोष्ठम्, अम्बष्ठः, आम्बष्ठः, सव्यष्ठः, अपष्ठः, द्विष्ठः, त्रिष्ठः, भूमिष्ठः, अग्निष्ठः, शेकुष्ठः, शङ्कष्ठः, कुष्ठः, अङ्गष्टः, मजिष्टः पुष्टिः, बर्हिष्ठः, परमेष्ठ, दिविष्ठः ॥ ३० ॥
"
निर्दुस्सोः सेध सन्धि-साम्नाम् | २|३|३१| एभ्यः परेषां सेधादीनां सः समासे षू स्यात् । निःषेधः, दुःषेधः, सुषेधः निःषन्धिः, दुःषन्धिः, सुषन्धिः । निःषाम, दुःषाम, सुषाम ॥ ३१ ॥
प्रष्ठोऽगे । २ । ३ । ३२ ॥
प्रात् स्थस्य सः षू स्यात्, अग्रगामिन्यर्थे । प्रष्ठोऽग्रगः ॥ ३२ ॥
भीरुष्ठानादयः । २ । ३ । ३३ ।
एते समासे कृतपत्वाः साधवः स्युः । भीरुष्ठानम्, अङ्गलिषङ्गः ॥ ३३ ॥
स्वान्नाम्नस्ति । २ | ३ | ३४ |
न विहितादौ प्रत्यये ह्रस्वान्नामिनः परस्य सः पू स्यात् । सर्पिपष्टा, वपुष्टमम् । नामिन इत्येव १ तेजस्ता
॥ ३४ ॥