________________
[९०]
हैमशब्दानुशासनस्य
प्रत्यये । २।३।६। अनव्ययस्य रस्य प्रत्ययविषये कखपफि स् स्यात् । पयस्पाशम् , पयस्कल्पम् । पयस्कम् । अनव्ययस्येत्येव ? स्वःपाशम् ॥ ६॥
रोः काम्ये । २ । ३ । ७। अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये स् स्यात् । पय स्काम्यति । रोरिति किम् ? अहाकाम्यति ॥ ७॥
नामिनस्तयोः षः । २।३।८। तयोः प्रत्ययस्थे कखपफि रोरेव काम्ये नामिनः परस्य रस्य ष् स्यात् । सपिपाशम् , धनुष्कल्पम् ,धानुष्का, सप्पिष्काम्यति । नामिन इति किम् ? अयस्कल्पम् । रोः काम्य इत्येव ? गी:काम्यति ॥ ८॥ .
निदुबेहिराविष्प्रादुश्चतुराम् । २ । ३ । ९। निरादीनां रस्य कखपफि ष स्यात् । निष्कृतम्, दुष्कृतम् , बहिष्पीतम्, आविष्कृतम्, प्रादुष्कृतम्, चतुपात्रम् ॥ ९॥
सुचो वा । २ । ३ । १०। सुजन्तस्थस्य रस्य कखपफि ष् वा स्यात् । द्विष्करोति, द्वि ४ करोति, द्विःकरोति।चतुष्फलति, चतु) फलति, चतुःफलति । कखपफि इति किम् ? । द्विश्चरति ॥ १० ।।
वेसुसोऽपेक्षायाम् । २।३ । ११ । इसुस्प्रत्ययान्तस्य रस्य कखपफि वा स्यात्, स्थानिनिमित्तयोरपेक्षा चेत् । सर्पिष्करोति, सर्पि-करोति।धनुष्खादति । धनु ४खादति। अपेक्षायामिति किम् ?