________________
स्वोपज्ञलघुवृत्तिः [९१] परमसर्पि - कुण्डम् ॥ ११ ॥
नैकार्थेऽक्रिये । २ । ३ । १२ । न विद्यते क्रियाप्रवृत्तिनिमित्तं यस्य तस्मिन्नेकार्थे तुल्याधिकरणे पदे यत् कखपर्फ तस्मिन् परे इसुस्प्रत्ययान्तस्य रस्य प न स्यात्। सपि कालकम् । यजु, फीतकम्। एकार्थ इति किम् ? सर्पिष्कुम्भे, सर्पिकुम्मे । अक्रिय इति किम् ? सर्पिष्क्रियते, सर्पि ४ क्रियते ॥१२॥
समासेऽसमस्तस्य । २ । ३ । १३ । पूर्वेणाऽसंमस्तस्य इसुस्प्रत्ययान्तस्य रस्य कखपफि स्यात्, निमित्तनिमित्तिनौ चेदेकन समासे स्तः। सर्पिष्कुम्भा, धनुष्फलम् । समास इति किम् ? तिष्ठतु सपिः, पिब त्वमुदकम् । असमस्तस्येति किम् ? परमसर्पिः कुण्डम् ॥१३॥
भ्रातुष्पुत्र कस्कादयः । २।३ । १४ । .. भ्रातुष्पुत्रादयः कस्कादयश्च कखपफि रस्य यथासंख्यं कृतषत्वसत्वाःसाधवः स्युः। भ्रातुष्पुत्रः,परमयजुष्पात्रम्, कस्का, कौतस्कुतः ॥ १४ ॥ नाम्यन्तस्थाकवर्गात् पदान्तः कृतस्य सः शि
ड-नान्तरेऽपि । २ । ३ । १५ । एभ्यः परस्य पदस्यान्तमध्ये कृतस्य कृतस्थस्य वासस्य ष् स्यात्, शिटा नकारेण चान्तरेऽपि । आशिषा, नदीषु, वायुषु, वधूषु, पितृषु, एषा, गोषु, नौषु, सिषेच, गीर्षु, हल्षु। शक्ष्यति, क्रुषु। शिड्नान्तरेऽपि, सार्पःषु, यजूंषि।