SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयः पादः ॥ नमस्पुरसो गतेः क-ख-प-फि रः सः । २ । ३ । १ । गतिसंज्ञयोर्नमस्पुरसो कखपफि रः सः स्यात् । नमस्कृत्य, पुरस्कृत्य । गतेरिति किम् ? नमः कृत्वा, तिस्रः पुरः करोति ॥१॥ .. तिरसो वा । २।३।२। गतेस्तिरसो रस्य कखपफि स् वा स्यात् । तिरस्कृत्य, तिरस्कृत्य । गतेरित्येव ? तिरः कृत्वा काष्ठं गतः ॥ २ ॥ पुंसः । २ । ३ । ३ । पुंसः सम्बन्धिनो रस्य कखपफि स् स्यात् । पुंस्कोकिलः, पुंस्खातः पुंस्पाकः, पुंस्फलम् ॥ ३॥ शिरोऽधसः पदे समासैक्ये । २।३।४। अनयो रेफस्य पदशब्दे परेः स् स्यात् समासैक्ये । शिरस्पदम्, अधस्पदम् । समासेति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरःपदम् ।। ४ ॥ अतः कृ-कमि-कंस-कुम्भ-कुशा-कर्णी-पात्रेऽनव्ययस्य .... ।२।३ । ५। आत् परस्यानव्ययस्थ रस्य क्रादिस्थे कखपफिस्स्यात्, समासैक्ये । अयस्कृत, यशस्कामः, पयस्कंसः, अयस्कुम्भः, अयस्कुशा, अयस्कर्णी, अयस्पात्रम् । अत इति किम् ? 'वाःपात्रम् । अनव्ययस्येति किम् ? स्वाकारः । समासैक्य इत्येव ? उपपयाकारः॥५॥ १ वार जलं तस्य पात्रम् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy