________________
[८८] हैमशब्दानुशासनस्य शेषणरहितो बहुवद्वा स्यात् । सम्पन्ना यवाः सम्पन्नो यवः। . जातीति किम् ? चैत्रः। आख्यायामिति किम् ? काश्यपप्रतिकृतिः काश्यपः। असंख्य इति किम् ? एको व्रीहिः सम्पन्नः सुभिक्षं करोति ॥ १२१ ॥ . अविशेषणे द्वौ चास्मदः । २।२।१२२। ..
अस्मदो द्वावेकश्चार्थो बहुवद्वा स्यात् , अविशेषणे न चेत् तस्य विशेषणं स्यात् । आवां ब्रूवः, वयं ब्रूमः । अहं ब्रवीमि, वयं ब्रूमः । अविशेषण इति किम् ? आवां गा. ग्यौ ब्रूवः । अहं चैत्रो ब्रवीमि ॥ १२२॥
फल्गुनी-प्रोष्ठपदस्य भे।.२।२।१२३। । फल्गुनीप्रोष्ठपदयो नक्षत्रेवर्तमानयोबीवर्थों बहुबद्वा स्याताम् । कदा पूर्वे फल्गुन्यो, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदा। भइति किम् ? फल्गुनीषु जाते फाल्गुन्यौ कन्ये ॥ १२३ ॥
गुरावेकश्च । २।२१२४ । गुरौ गौरवाहें वर्तमानस्य द्वावेकश्चार्थों बहुवद्वा स्यात् । युवां गुरू । यूयं गुरवः । एष मे पिता । एते मे पितरः ॥ १२४ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य द्वितीयपादः समाप्तः ॥ २ ॥ १॥