________________
स्वोपज्ञलघुवृत्तिः [८७] तुल्याईस्तृतीया-षष्ठ्यौ । २ । २ ।११६॥ तुल्यार्थैर्युक्तात्तृतीयाषष्ठयौ स्याताम् । मात्रा मातुर्वा तुल्यः समो वा ॥ ११६ ॥
द्वितीया-षष्ठयावेनेनाऽनञ्चेः ।२।२।११६। · एनप्रत्ययान्तेन युक्ताद् द्वितीयाषष्ठयौ स्याताम् । न चेत् सोऽञ्चेः परः स्यात् । पूर्वेण ग्रामं ग्रामस्य वा। अननेरिति किम् ? प्राग् ग्रामात् ॥ ११७ ॥
हेत्वथैस्तृतीयाद्याः। २।२।११८।
हेतुनिमित्तं तद्वाचिभिर्युक्तात् तृतीयाद्याः स्युः धनेन हेतुना, धनाय हेतवे, धनादतोः, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्तादिभिरपि ॥ ११८ ॥
सर्वादेः सर्वाः । २ । २ । ११९ । हेत्वथैर्युक्तात् सर्वादेः सर्वा विभक्तयः स्युः । को हेतुः, कं हेतुम् , केन हेतुना, कस्मै हेतवे, कस्माद्धेतोः, कस्य हेतोः, कस्मिन् हेतौ वा याति ॥ ११९ ॥
असत्त्वारादर्थात् टा-उसि-उयम् । २।२।१२०॥ __ असत्त्ववाचिनो दूरादिन्तिकार्थाच टा-उसि-यमः स्युः । गौणादिति निवृत्तं । दूरेण दूरात् दूरे दूरं वा ग्रामस्य ग्रामाद्वा वसति । एवं विप्रकृष्टेनेत्यादि। अन्तिकेन अन्तिकात् अन्तिके अन्तिकं वा ग्रामस्य ग्रामादा वसति, एवमभ्यासेनेत्यादि । असत्त्व इति किम् ? दूरोन्तिको वा पन्थाः ॥ १२० ॥ जात्याख्यायां नवैकोऽसंख्यो बहुवत् । २ । २।१२१| जातेराख्याऽभिधा तस्यामेकोऽर्थोऽसंख्यः संख्यावाचिवि