SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ [ ८६ ] हैमशब्दानुशासनस्य कृष्णा गव गोषु वा बहुक्षीरा, धावन्तो यातां यात्सु वा शीघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा । अविभाग इति किम् ? मैत्रश्चैत्रात् पटुः ॥ १०९ ॥ क्रियामध्येऽध्व-काले पञ्चमी च । २ । २ । ११० । क्रिययोर्मध्ये याavaकालौ तद्वाचिभ्यां पञ्चमीसप्तम्यौ स्याताम् । इहस्थोऽयमिष्वासः क्रोशात् क्रोशे वा लक्ष्यं विध्यति, अद्य भुक्त्वा मुनिर्द्वयहात् द्वयहे वा भोक्ता ॥ ११० ॥ अधिकेन भूयसस्ते | २ | २ | १११ । अधिकेनाऽल्पीयोवाचिना योगे भूयोवाचिनस्ते ससमीपञ्चम्यौ स्याताम् । अधिको द्रोणः खार्या खार्या वा ॥ १११ ॥ तृतीयाऽल्पीयसः । २ । २ । ११२ । अधिकेन भूयोवाचिना योगेऽल्पीयोवाचिनस्तृतीया स्यात् । अधिका खारी द्रोणेन ॥ ११२ ॥ 'पृथग्- नाना पञ्चमी च । २ । २ । ११३ । आभ्यां युक्तात् पञ्चमी तृतीया च स्यात् । पृथगू मैत्रात् मैत्रेण वा । नाना चैत्रात्, चैत्रेण वा ॥ ११३ ॥ ऋते द्वितीया च । २ । २ | ११४ | ऋते शब्देन युक्ताद् द्वितीया पञ्चमी च स्यात् । ऋते धर्मं धर्मात् कुतः सुखम् ॥ ११४ ॥ विना ते तृतीया च । २ | २ | ११५ । विना शब्देन युक्तात् ते द्वितीयापञ्चम्यौ तृतीया च स्यात् । विना वातं वातात् वातेन वा ॥ ११५ ॥ १ यदा त्वसहायार्थी पृथ्डू- नानाशब्दौ तदाऽऽभ्यां पञ्चमी तृतीया च विधीयते । स०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy