SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः उपेनाधिकिनि । २ । २ । १०५ । - उपेन युक्तादधिकिनि वाचिनः सप्तमी स्यात् । उपखायर्या द्रोणः ॥ १०५॥ यद्भावो भावलक्षणम् । २ । २ । १०६ । भावः क्रिया, यस्य भावेन अन्योभावो लक्ष्यते तद्वाचिनः सप्तमी स्यात् । गोवु दुयमानासु गतः ॥ १०६ ॥ गते गम्येऽध्वनोऽन्तेनैकाथ्ये वा । २ । २ । १०७ । __कुतश्चिदवधेर्विवक्षितस्याध्वनोऽवसानमन्तः, यद्भावो भावलक्षणं तस्याध्वनोऽध्वन एव, अन्तेनान्तवाचिना सहकार्य सामानाधिकरण्यं वा स्यात्, तद्विभक्तिस्तस्मात् स्यादित्यर्थः, गते गम्येऽप्रयुज्यमाने । गवीधुमतः सांकाश्यं चत्वारि योजनानि चतुषु वा योजनेषु । गत इति किम् ? दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भूत् । गम्य इति किम् १ गतप्रयोगे माभूत् । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे। अन्तेनेति किम् ? अद्य नश्चतुर्पु गव्यूतेषु भोजनम् ।। १०७ ॥ ___षष्ठी वाऽनादरे । २।२। १०८ । यद्भावो भावलक्षणं तवृत्तेरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य, रुदति लोके वा प्रावाजीत् ॥ १०८ ॥ सप्तमी चाऽविभागे निर्धारणे ।२।२।१०९ । जाति-गुण-क्रियादिभिः समुदायादेकदेशस्य बुद्धया पृथकरणं निर्धारणम् , तस्मिन् गम्ये षष्ठी-सप्तम्यौ स्याताम् , अविभागे निर्यमाणैकदेशस्य समुदायेन सह कथश्चिदैक्ये शब्दाद्गम्यमाने। क्षत्रियो नृणां नृषु वा शूरः,
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy