________________
स्वोपज्ञलघुवृत्तिः [१] दोहः। कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता। कृत इति किम् ? भुक्तपूर्वी ओदनम् ॥ ८३ ॥
द्विषो वाऽतृशः । २।२ । ८४ । अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य चौरं वा द्विषन् ॥ ८४ ॥
वैकत्र द्वयोः। २।२।८५। . द्विकर्मकेषु धातुषु कृत्प्रत्ययान्तेषु द्वयोः कर्मणोरेकतरस्मिन् षष्ठी वा स्यात् । अजाया नेता सुघ्नं सुन्नस्य वा। अथवा अजां अजाया वा नेता स्रुघ्नस्य ।। ८५॥
कर्तरि । २ । २ । ८६ । कृदन्तस्य धातोः कर्तरि षष्ठी स्यात् । भवत आसिका। कर्तरीति किम् ? गृहें शायिका ॥ ८६ ॥
दिहेतोरस्त्र्यणकस्य वा । २ । २ । ८७ ।
स्त्यधिकारविहिताभ्यामणकाभ्यामन्यस्य द्वयोः कतृकर्मषष्ठयोर्हेतोः कृतः कर्तरि षष्ठी वा स्यात् । विचित्रा सूत्राणां कृतिराचार्यस्य आचार्येण वा । द्विहेतोरित्येकव. चनं किम् ? आश्चर्यमोदनस्य पाकोऽतिथीनां च प्रादुर्भावः । अस्त्र्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम् , भेदिका चैत्रस्य काष्ठानाम् ॥ ८७ ॥
कृत्यस्य वा । २ । २ । ८८। कृत्यस्य कर्तरि षष्ठी वा स्यात् । त्वया तव वा कृत्यः कटः॥८८॥
9
.