SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [८०] हैमशब्दानुशासनस्य दूरं विप्रकृष्टं वा ग्रामाद् ग्रामस्य वा । अन्तिकमभ्यासंवा ग्रामाद ग्रामस्य वा ॥ ७८ ॥ स्तोकाऽल्प-कृच्छ्र-कतिपयादसत्त्वे करणे।२।२७९/ यतो द्रव्ये शब्दप्रवृत्तिः सगुणोऽसत्त्वं, तेनैव वा रूपे. णाभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्तमानेभ्यः स्तोकादिभ्यः पञ्चमी वा स्यात् । स्तोकात् स्तोकेन वा, अल्पादल्पेन वा, कृच्छ्रात् कृच्छ्रेण वा, कतिपयात्कतिपयेन वा मुक्तः । असत्त्व इति किम् ? स्तोकेन विषेण हतः ॥ ७९ ॥ अज्ञाने ज्ञः षष्ठी । २।२।८०। अज्ञानार्थस्य ज्ञो यत्करणं तद्वाचिन एकद्वि-बही यथासंख्यं ङसोसाम् लक्षणा षष्ठी नित्यं स्यात् । सर्पिषः सर्पिषोः सप्पिषां वा जानीते । अज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव तैलं सर्पिषो जानाति ॥ ८०॥ शेषे । २ । २ । ८१ ।' कादिभ्योऽन्यस्तदविवक्षारूपः स्वस्वामिभावादिसम्बन्धः विशेषः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः, उपगोरपत्यम्, माषाणामश्नीयात् ।। ८१ ॥ रि-रिष्टात्-स्तादस्तादसतसाता । २ । २८२) एतत्प्रत्ययान्तैर्युक्तात् षष्ठी स्यात् । उपरि ग्रामस्य, उपरिष्टात्, परस्तात् ,पुरस्तात्, पुरः,दक्षिणतः, उत्तराद्वा ग्रामस्य ॥ ८२ ॥ कम्मेणि कृतः। २।२। ८३। कृदन्तस्य कर्मणि षष्ठी स्यात् । अपां स्रष्टा, गवां
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy