SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [७९] आख्यातयुपयोगे । २ । २ । ७३ । आख्याता प्रतिपादयिता तद्वाचिनः पञ्चमी स्यात् । उपयोगे नियमपूर्वकविद्याग्रहणविषये। उपाध्यायादधीते आगमयति वा। उपयोग इति किम् ? नटस्य शृणोति ॥७३॥ गम्ययपः कर्माऽधारे। २।२।७४ । गम्यस्याप्रयुज्यमानस्य यबन्तस्य कर्माऽऽधारवाचिनः पश्चमी स्यात्। प्रासादादासनाद्वा प्रेक्षते। गम्यग्रहणं किम् ? प्रासादमारुह्य शेते । आसने उपविश्य भुङ्क्ते ॥७॥ प्रभृत्यन्यार्थ-दिक्शब्द-बहिरारादितरैः ।२।२७५/ प्रभृत्यर्थैरन्याथैदिक्शब्दैवहिरादिभिश्च युक्तात् पश्चमी स्यात् । ततः प्रभृति, ग्रीष्मादारभ्य, अन्यो भिन्नो वा मैत्रात्, ग्रामात् पूर्वस्यां दिशि वसति, उत्तरो विन्ध्यात् पारियात्रः, पश्चिमो रामाद् युधिष्ठिरः, बहिः आरात् इतरो वा ग्रामात् ॥ ७५ ॥ ऋणाद्धेतोः। २ । २ । ७६ । हेतुभूतऋणवाचिनः पश्चमी स्यात् । शताद् बद्धः। हेतोरिति किम् ? शतेन बद्धः ।। ७६ ॥ - गुणोदस्त्रियां नवा । २ । २ । ७७ । अस्त्रीवृत्तेर्हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् । जाड्यात् जाडयेन वा बद्धः, ज्ञानात् ज्ञानेन वा मुक्तः, अत्रियामिति किम् ? बुद्धया मुक्तः ॥ ७ ॥ आरादर्थैः । २ । २ । ७८ । आराद्दूरमन्तिकं च तदर्थैर्युक्तात् पञ्चमी वा स्यात्।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy