________________
[७८] हैमशब्दानुशासनस्य
परिक्रयणे । २ । २ । ६७ । परिक्रीयते नियतकालं स्वीक्रियते येन तस्मिन् वर्तमानाचतुर्थी वा स्यात् । शताय शतेन वा परिक्रीतः ॥६७॥ शक्तार्थ चषड्-नमः स्वस्ति-स्वाहा-स्वधाभिः।२।२।६८ ___ शक्तार्वषडादिभिध युक्ताचतुर्थी नित्यं स्यात् । शक्तः प्रभुर्वा मल्लो मल्लाय, वषडग्नये, नमोऽर्हद्भ्यः, स्वस्ति प्रजाभ्यः, स्वाहेन्द्राय, स्वधा पितृभ्यः ॥ ६८ ॥ •
पञ्चम्यपादाने । २ । २ । ६९ । अपादाने एक-द्वि-बहौयथासंख्यं डसि-भ्यां-भ्यस्लक्षणा पश्चमी स्यात् । ग्रामाद् गोदोहाभ्यां वनेभ्यो वा आगच्छति ॥ ६९ ॥
आङाऽवधौ । २ । २ । ७० । अवधिर्मर्यादा अभिविधिश्च । तवृत्तेराङा युक्तात् पश्चमी स्यात् । आपाटलिपुत्राद् वृष्टो मेघः॥ ७० ॥
पर्यपाभ्यां वये । २ । २ । ७१ ।। वय वर्जनीयेऽर्थे वर्तमानात् पर्यपाभ्यां युक्तात् पश्चमी स्यात् । परि अप वा पाटलिपुत्राद वृष्टो मेघः । वर्ण्य इति किम् ? अपशब्दो मैत्रस्य ॥ ७१ ॥ यतः प्रतिनिधि-प्रतिदाने प्रतिना । २ । २ । ७२ ।
प्रतिनिधिमुख्यसदृशोऽर्थः । प्रतिदानं गृहीतस्य विशोधनं । ते यतः स्यातां तद्वाचिनः प्रतिना योगे पश्चमी स्यात् । प्रद्युम्नो वासुदेवात् प्रति । तिलेभ्यः प्रतिमाषानस्मै प्रयच्छति ॥ ७२॥