________________
स्वोपज्ञलघुवृत्तिः [७७] गतेनवाऽनाप्ते । २ । २ । ६३ । गतिः पादविहरणं। तस्या आप्येऽनाप्ते वर्तमानाचतुर्थी वा स्यात् । ग्रामंग्रामाय वा याति, विप्रनष्टः पन्थानं पथे वा याति।गतेरिति किम् ? स्त्रियं गच्छति,मनसा मेरुं गच्छति। अनाप्त इति किम् ? संप्राप्ते मा भूत्। पन्थानं याति ॥६३॥
मन्यस्याऽनावादिभ्योतिकुत्सने । २ । २ । ६४ । ___ अतीव कुत्स्यते येन तदतिकुत्सनं तस्मिन् , मन्यते
ाप्ये वर्तमानान्नावादिवर्जाचतुर्थी वा स्यात् । न त्वा तृणाय तृणं वा मन्ये। मन्यस्येति किम् ? न त्वा तृणं मन्वे। अनावादिभ्य इति किम् ? नत्वा नावं, अन्नं, शुकं, शृंगालं, काकं वा मन्ये । कुत्सन इति किम् ? न त्वा रत्नं मन्ये । करणाऽऽश्रयणं किम् ? न त्वा तृणाय मन्ये । युष्मदो मा भूत् । अतीति किम् ? त्वां तृणं मन्ये ॥६४॥
हित-सुखाभ्याम् । २ । २ । ६५ । आभ्यां युक्ताच्चतुर्थी वा स्यात् । आमयाविने आमयाविनो वा हितम् । चैत्राय चैत्रस्य वा सुखम् ॥६५॥
तद्भद्राऽऽयुष्य-क्षेमार्थाऽर्थेनाऽऽशिषि । २ । २। ६६ । .. तदिति हितसुखयोः परामर्शः। हिताद्यर्थैर्युक्तादाशिषि गम्यायां चतुर्थी वा स्यात् । हितं पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुखं शं शर्म वा प्रजाभ्यः प्रजानां वा भूयात्, भद्रमस्तु श्रीजिनशासनाय श्रीजिनशासनस्य वा । आयुष्यमस्तु चैत्राय चैत्रस्य वा। क्षेम भूयात् कुशलं निरामयं वा श्रीसङ्घाय श्रीसङ्घस्य वा । अर्थः कार्य प्रयोजनं वा भूयान्मैत्राय मैत्रस्य वा ॥ ६६ ॥