SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ [७६] हैमशब्दानुशासनस्य वीक्ष्ये राधीक्षी वर्त्तते तवृत्तेश्चतुर्थी स्यात् । मैत्राय राध्यति ईक्षते वा, ईक्षितव्यं परस्त्रीभ्यः। वीक्ष्य इति किम् ? मैत्रमीक्षते ॥ ५८॥ उत्पातेन ज्ञाप्ये । २ । २ । ५९ । उत्पात आकस्मिकं निमित्तम्। तेन ज्ञाप्ये वर्तमानाचतुर्थी स्यात् । वाताय कपिला विद्युत् , आतपायातिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् ॥१॥ उत्पातेनेति किम् ? राज्ञ इदं छत्रमायान्तं विद्धि राजानम् ॥५९ ॥ श्लाघलु-स्था-शपा प्रयोज्ये ।२।२। ६० । इलाघादिभिर्द्धातुभिर्युक्ताद् ज्ञाप्ये प्रयोज्ये वर्तमानाचतुर्थी स्यात् । मैत्राय श्लाघते, हनुते, तिष्ठते, शपते, प्रयोज्य इति किम् ? मैत्रायाऽऽत्मानं श्लाघते, आत्मनो मा भूत् ॥ ६॥ तुमोऽर्थे भाववचनात् । २ । २ । ६१ । क्रियायां क्रियायामुपपदे तुम् वक्ष्यते तस्यार्थे ये भाववाचिनो घनादयस्तदन्तात् स्वार्थे चतुर्थी स्यात् । पाकाय इज्यायै वा व्रजति, तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य व्रज्या॥६१॥ गम्यस्याऽऽप्ये । २ । २ । ६२ । यस्यार्थो गम्यते नचाऽसौ प्रयुज्यते स गम्यः। गम्यस्य तुमो व्याप्ये वर्तमानाचतुर्थी स्यात् । एधेभ्यः फलेभ्यो वा व्रजति । गम्यस्येति किम् ? एधानाहतु याति ॥ ६२ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy