SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ___ स्वोपज्ञलघुवृत्तिः [७५] सम्पूर्वस्य दामः सम्प्रदानेऽधम्र्ये वर्तमानात्तृतीया स्यात् । तत्सन्नियोगे च दाम आत्मनेपदम् । दास्या सम्प्रयच्छते कामुकः । अधर्म्य इति किम् ? पत्न्य संप्रयच्छति ॥५२॥ चतुर्थी । २ । २।५३ । संप्रदाने वर्तमानादेक-द्वि-बही यथासंख्यं डे-भ्या-भ्यम्लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते, पत्ये शेते॥५३॥ तादर्थे । २ । २ । ५४ । तस्मा इदं तदर्थम् । तद्भावे सम्बन्धविशेषे द्योत्ये चतुर्थी स्यात् । यूपाय दारु, रन्धनाय स्थाली ।। ५४ ॥ रुचिकृप्यर्थ-धारिभिः प्रेय-विकारोत्तमणेषु ।२।२।५४) रुच्यथैः कृप्यर्थैर्धारिणाच योगेयथासंख्यं प्रेय-विकारोत्तमर्णवृत्तेश्चतुर्थी स्थात् । मैत्राय रोचते धर्मः, मूत्राय कल्पते यवागूः, चैत्राय शतं धारयति ॥ ५५॥ प्रत्याङः श्रुवार्थिनि । २ । २ । ५६ । प्रत्याभ्यां परेण श्रुवा युक्तादर्थिन्यभिलाषुके वर्त्तमानाचतुर्थी स्यात्। द्विजाय गांप्रतिशृणोति, आशृणोति वा ॥५६॥ .. प्रत्यनोगणाऽऽख्यातरि।२।२। ५७ । प्रत्यनुभ्यांपरेण गृणायोगे आख्यातृवृत्तेश्चतुर्थी स्यात्। गुरवे प्रतिगृणाति अनुगृणाति ॥ ५७ ॥ यदीक्ष्ये राधीक्षी । २ । २ । ५८ । वीक्ष्यं 'विमतिपूर्वकं निरूप्य तद्विषया क्रियापि। यस्य १ विविधा विशेषानुपलम्मादेकस्मिन् वस्तुनि सादृश्यादिनिमित्तादनेकपक्षाऽऽलम्बनानवधारणाऽऽत्मिका मतिविमतिः -संदेहज्ञानमित्यर्थः । सं०
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy