SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ [७४] हैमशब्दानुशासनस्य खञ्जः प्रकृत्या दर्शनीयः, तद्वद्ग्रहणं किम् ? अक्षिकाणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम्, तेनाक्ष्णा दीर्घ इति न स्यात् ॥ ४६॥ कृताऽऽद्यैः २।२।४७। - कृताऽऽद्यनिषेधार्थैर्युक्तात्तृतीया स्यात् । कृतं तेन, किं गतेन ॥ ४७॥ काले भान्नवाऽऽधारे । २ । २ । ४८।। कालवृत्तेर्नक्षत्रार्थादाधारे तृतीया वा स्यात् । पुष्येण पुष्ये वा पायसमश्नीयात् । काल इति किम् ? पुष्येऽर्कः । भादिति किम् । तिलपुष्पेषु यत्क्षीरम् । आधार इति किम् ? अद्य पुष्यं विद्धि ॥४८॥ प्रसितोत्सुकाऽवबद्वैः । २ । २ । ४९ । एतैर्युक्तादाधारवृत्तेस्तृतीया वा स्यात् । केशैः, केशेषु वा प्रसितः। गृहेण, गृहे वा उत्सुकः, केशैः, केशेषु वाऽवबद्धः॥४९॥ . व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् । २ । २ । ५० । __ व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया था स्यात् । द्विद्रोणेन, द्विद्रोणं द्विद्रोणं वा धान्यं क्रीणाति, पञ्चकेन पञ्चकं पञ्चकं वा पशून् क्रीणाति ॥५०॥ समो ज्ञोऽस्मृतौ वा । २ । २ । ५१ । अस्मृत्यर्थस्य सञ्जानातेर्यद्वयाप्यं तवृत्तेस्तृतीया वा स्यात् । मात्रा मातरं वा सञ्जानीते। अस्मृताविति किम् ? मातरं सञ्जानाति ॥५१॥ दामः संप्रदानेऽधर्म्य आत्मने च । २ । २ । ५२ ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy