________________
स्वोपज्ञलघुवृत्तिः [७३] वाचिभ्यां द्वितीया स्यात् । मासं गुडधानाः, कल्याणी अधीते वा । क्रोशं गिरिः, कुटिला नदी,क्रोशमधीते वा। व्याप्ताविति किम् ? मासस्य मासे वा द्वयहं गुडधानाः । क्रोशस्य क्रोशे वा एकदेशे कुटिला नदी ॥ ४२ ॥
सिद्धौ तृतीया । २ । २ । ४३ । सिद्धौ फलनिष्पत्ती, द्योत्यायां कालाधवाचिभ्यां टा-भ्यां-भिस्लक्षणा तृतीया यथासंख्यमेक-द्वि-बहौस्यात्। मासेन मासाभ्यां मासै आवश्यकमधीतम् । क्रोशेन कोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् । सिद्धाविति किम् ? मासमधीत आचारो नाऽनेन गृहीतः ॥ ४३ ॥
हेतु-कर्तृ-करणेत्थम्भूतलक्षणे । २ । २।४४ । फलसाधनयोग्यो हेतुः । किश्चित्प्रकारमापन्नस्य चिह्न इत्थम्भूतलक्षणं । हेत्वादिवृत्ते म्नस्तृतीया स्यात् । धनेन कुलम् । चैत्रेण कृतम् । दांत्रेण लुनाति । अपि त्वं कमण्डलुना च्छात्रमद्राक्षीः १ ॥४४॥
सहार्थे । २ । २।४५ । सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नस्तृतीया स्यात् । पुत्रेण सहागतः। स्थूलो गोमान् ब्राह्मणो वा। . .
एकेनापि सुपुत्रेण, सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रै रं वहति गर्दभी॥१॥ ४५ ॥
यद्भेदैस्तद्वदाख्या । २।२। ४६ । यस्य भेदिनो भेदैः प्रकारैस्तद्वतोऽर्थस्याऽऽख्या निर्देशः स्यात् तद्वाचिनस्तृतीया स्यात् । अक्ष्णा काणः, पादेन
१०