SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ - [८२] हैमशब्दानुशासनस्य नोभयोर्हेतोः । २ । २ । ८९ । उभयो कर्तृ-कर्मणोः षष्ठीहेतोः कृत्यस्योभयोरेव षष्ठी न स्यात् । नेतव्या ग्राममजा मैत्रेण ॥ ८९ ॥ तृन्नुदन्ताऽव्यय क्वस्वानातृश्शतृ-ङि-णकच ___ खलर्थस्य । २ । २ । ९० । तृन्नादीनां कृतां कर्मकोंः षष्ठी न स्यात् । तृन्वदिता जनापवादान् । उदन्तः-कन्यामलङ्करिष्णुः, श्रद्धालुस्तत्त्वम् । अव्ययम्-कटं कृत्वा, ओदनं भोक्तुं व्रजति । क्वसुः-ओदनं पेचिवान् । आनः कटं चक्राणः, मलयं पचमानः, चैत्रेण पच्यमानः। अतृश-अधीयस्तत्त्वार्थम् । शत-कटं कुर्वन् । डि-परीषहान् सासहिः । णकच-कटं कारको व्रजति । खलर्थः-ईषत्करः कटो भवता, सुज्ञानं तत्त्वं त्वया ॥९॥ क्तयोरसदाधारे । २।२। ९१ । सतो वर्तमानादाधाराचान्यत्रार्थे यो क्त-क्तवतू तयोः कर्मकोंः षष्ठी न स्यात् । कटः कृतो मैत्रेण, ग्रामं गतवान् असदाधार इति किम् ? राज्ञां पूजितः । इदं सक्तूनां पीतम् ॥ ९१ ॥ वा क्लीबे । २ । २ । ९२ । क्लीबे विहितस्य क्तस्य कर्तरि षष्ठी वा स्यात् । मयूरस्य मयूरेण वा नृत्तम् ॥ ९२ ॥ अकमेरुकस्य । २ । २ । ९३ । 'कमेरन्यस्योकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् । भोगानभिलाषुकः। अकमेरिति किम् ? दास्याः कामुकः॥१३॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy