________________
[७०]
हैमशब्दानुशासनस्य क्रुद्-दुहेाऽसूयाथैर्य प्रतिकोपः । २।२ । २७ ।
क्रुधाद्यर्थे तुभिर्योगेयं प्रति कोपस्तत् सम्प्रदानं स्यात् । मैत्राय क्रुध्यंति, द्रुह्यति, ईयति, असूयति वा । यं प्रतीति किम् ? मनसा क्रुध्यति । कोप इति किम् ? शिप्यस्य कुप्यति विनयार्थम् ॥ २७ ॥
नोपसर्गात् क्रुद्-द्रुहा । २।२।२८।। सोपसर्गाभ्यां क्रुद्रुहिभ्यां योगे यंप्रतिकोपस्तत्संप्रदानं न स्यात् । मैत्रमभिक्रुध्यति, अभिद्रुह्यति । उपसर्गादिति किम् ? मैत्राय क्रुध्यति द्रुह्यति ॥ २८ ॥ ..
अपायेऽवधिरपादानम् । २ । २ । २९ ।
अपाये विश्लेषे योऽवधिस्तदपादानं स्यात् । वृक्षात् पर्ण पतति, व्याघ्राद् बिभेति, अधर्माज्जुगुप्सते विरमति वा,धर्मात्प्रमाद्यति, चौरेभ्यस्त्रायते, अध्ययनात् पराजयते, यवेभ्यो गांरक्षति,उपाध्यायादन्तर्द्धत्ते,श्रृङ्गाच्छरोजायते, हिमवतोगङ्गा प्रभवति, वलभ्याः श्रीशत्रुञ्जयः षड् योजनानि, कार्तिक्या आग्रहायणी मासे, चैत्रान्मैत्रः पटुः, माथुराः पाटलिपुत्रकेभ्य आढयतराः ॥ २९ ॥ क्रियाऽऽश्रयस्याऽऽधारोऽधिकरणम् । २।२।३०।
क्रियाऽऽश्रयस्य कत्तुः कर्मणो वाऽऽधारोऽधिकरणं स्यात् । कटे आस्ते, स्थाल्या तण्डुलान् पचति ॥ ३०॥
नाम्नः प्रथमैक-दि-बहौ । २।२ । ३१ । एकद्विबहावर्थमात्रे वर्तमानानाम्नः परा यथासंख्यं सि-औ-जस्लक्षणा प्रथमा स्यात् । डित्थः, गौः, शुक्ल: कारकः, दण्डी ॥३१॥