________________
स्वोपज्ञलघुवृत्तिः [७१] आमन्त्र्ये । २ । २।३२ ।। आमन्यार्थवृत्तेर्नाम्नः प्रथमा स्यात् । हे देव!। आमव्य इति किम् ? राजा भव ॥ ३२ ।। गौणात्समया-निकषा-हा-धिगन्तराऽन्तरेणाति-ये
नतेनै-द्वितीया । २ । २ । ३३ । समयादिभिर्युक्ताद् गौणानाम्न एकद्विवहौ यथासंख्यममौ-शसिति द्वितीयास्यात्।समया ग्रामम् । निकषा गिरि नदी। हा! मैत्रं व्याधिः। घिर जाल्मम् ।अन्तराऽन्तरेण च निषधं निलं च विदेहाः । अन्तरेण धम्म सुखं न स्यात् । अतिवृद्धं कुरुन् महबलम् । येन पश्चिमां गतः तेन पश्चिमां नीतः ।। ३३ ॥
द्वित्वेऽधोऽध्युपरिभिः । २ । २ । ३४ । द्विरुक्तैरेभियुक्तानाम्नो द्वितीया स्यात् । अधोऽधो ग्रामम् । अध्यऽधिग्रामम् । उपर्युपरि ग्रामं ग्रामाः। द्वित्व इति किम् ? अधो गृहस्य ॥ ३४॥
सर्वोभयाभिपरिणा तसा। २।२।३५। सर्वादिभिस्तसन्तैर्युक्तानाम्नो द्वितीया स्यात् । सर्वतः। उभयतः। अभितः, परितो वा ग्रामं वनानि ॥३५॥ लक्षण--वीप्स्येत्थम्भूतेष्वभिना । २ । २।३६ ।
लक्षणं चिह्नम् , वीप्साकर्म वीप्स्यम् , इत्थम्भूतः किश्चित्प्रकारमापन्नः, एषु वर्तमानादभिनायुक्ताद् द्वितीया स्यात् । वृक्षमभिविद्युत्, वृक्षं वृक्षमाभसेकः, साधुमैत्रो मातरमभि। लक्षणादिष्विति किम् ? यदत्र ममभि स्यात् तहीयताम् ॥ ३६॥