SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [ ६९ ] उपान्वध्याङ् - वसः | २ | २ | २१ | उपादिविशिष्टस्य वसतेराधारः कर्म्म स्यात् । ग्राममुपवसति, अनुवसति, अधिवसति आवसति ॥ २१ ॥ वाऽभिनिविशः | २ | २ | २२ | " अभिनिभ्यामुपसृष्टस्य विशेराधारः कर्म वा स्यात् । ग्राममभिनिविशते, कल्याणे अभिनिविशते ॥ २२ ॥ कालाsध्व-भाव- देशं वाऽकर्म्म चाकर्मणाम् । २ । २ । २३ । कालादिराधारोऽकर्मणां धातूनां योगे कम्मकर्म च युगपद्वा स्यात् । मासमास्ते, क्रोशं शेते, गोदो हमास्ते, कुरूनास्ते । पक्षे-मासे आस्ते इत्यादि । अकर्म चेति किम् ? मासमास्यते । अकर्मणामिति किम् ? रात्रावुद्देशोऽधीतः ॥ २३ ॥ साधकतमं करणम् | २ | २ | २४ | । क्रियायां प्रकृष्टोपकारकं करणं स्यात् । दानेन भोगानाप्नोति ॥ २४ ॥ कम्मभिप्रेयः संप्रदानम् | २ | २ | २५ | कर्मणा व्याप्येन क्रियया वा यमभिप्रेयते स सम्प्रदानं स्यात् । देवाय बलिं दत्ते, राज्ञे कार्यमाचष्टे, पत्ये शेते ॥ २५ ॥ स्पृहेर्व्याप्यं वा | २ | २ | २६ ॥ स्पृर्व्याप्यं वा संप्रदानं स्यात् । पुष्पेभ्यः पुष्पाणि वा स्पृहयति ॥ २६ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy