SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ [६८] हैमशब्दानुशासनस्य निप्रेभ्यो नः । २ । २ । १५ । समस्तव्यस्तविपर्यस्ताभ्यां निप्राभ्यां परस्य हिंसार्थस्य हन्तेाप्यं कर्म वा स्यात् । चौरस्य चौरं वा निप्रहन्ति। हिंसायामित्येव ? रागादीनिहन्ति ॥ १५॥ विनिमेय-द्यूतपणं पणि-व्यवहोः।२।२।१६ | विनिमेयः क्रयविक्रयोऽर्थः, द्यूतपणो द्यूतजेयं, तो पणिव्यवहोर्व्याप्यो वा कर्म स्याताम् । शतस्य शतं वा पणायति, दशानां दश वा व्यवहरति। विनिमेयवृतपणमिति किम् ? साधून पणायति ॥ १६ ॥ . उपसर्गादिवः । २ । २ । १७ ॥ उपसर्गात् परस्य दिवो व्याप्यो विनिमेयद्यूतपणौ वा कर्म स्याताम् । शतस्य शतं वा प्रदीव्यति। उपसर्गादिति किम् ? शतस्य दीव्यति ॥ १७ ॥ न । २ । १८। अनुपसर्गस्य दिवो. व्याप्यो विनमेयद्यूतपणौ कर्म न स्याताम् । शतस्य दीव्यति ॥ १८ ॥ ४ करणं च । २ । २ ॥१९॥ दिवः करणं कर्म करणं च युगपत् स्यात् । अक्षान् दीव्यति, अक्षर्दीव्यति, अक्षैर्देवयते मैत्रश्चैत्रेण ॥१९॥ अधेः शीङ्-स्थाऽऽस आधारः । २।२।२०। अधेः संबद्धानां शीस्थाऽऽसामाधारः कर्म स्यात् । ग्राममधिशेते, अधितिष्ठति, अध्यास्ते वा ॥ २०॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy