________________
स्वोपज्ञलघुवृत्तिः [६७]
नाथः । २ । २ । १०। __आत्मनेपदविषयस्य नाथो व्याप्यं कर्म वा स्यात् । सर्पिषो नाथते, सपि थते । आत्मन इत्येव ? पुत्रमुप. नाथति पाठाय ॥ १०॥ ... स्मृत्यर्थ-दयेशः । २ । २ । ११ ।
स्मृत्यर्थानां दयेशोश्च व्याप्यं कर्म वा स्यात् । मातुः स्मरति, मातरं स्मरति, मातुः स्मर्यते, माता स्मर्यते, सप्पिषः सपिर्वा दयते, लोकानामीष्टे, लोकानीष्टे ॥११॥
कृगः प्रतियत्ने । २ । २ । १२ । पुनर्यत्नःप्रतियत्नस्तवृत्तेः कृगो व्याप्यं कर्म वा स्यात् । एधोदकस्यैधोदकं वोपस्कुरुते ॥ १२ ॥ रुजाऽर्थस्याऽज्वरि-सन्तापेर्भावे कर्तरि ।
. २ | २ । १३ । __रुजा पीडा, तदर्थस्य ज्वरिसन्तापिवर्जस्य धातोर्व्याप्यं कर्म वा स्यात् । भावश्चेद्रुजायाः कर्ता । चौरस्य चौरं वा रुजति रोगः । अज्वरिसन्तापेरिति किम् ? आधूनं ज्वरयति सन्तापयति वा। भाव इति किम् ? मैत्रं रुजति श्लेष्मा ॥ १३ ॥ जास-नाट-नाथ-पिषो हिंसायाम् । २ । २ । १४ ।
हिंसार्थानामेषां व्याप्यं कर्म वा स्यात् । चौरस्य चौरं वोजासयति, चौरस्य चौरं वोन्नाटयति, चौरस्य चौरं वोत्क्राथयति, चौरस्य चौरं वा पिनष्टि । हिंसायामिति किम् ? चौरं बन्धनाजासयति ॥ १४ ॥