SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ [६६] हैमशब्दानुशासनस्य मणाच नीखाद्यदिहाशब्दापक्रन्द्रिवर्जानां धातूनामणिकर्ता स णौ सति कर्म स्यात् । गमयति चैत्रं ग्रामम्, बोधयति शिष्यं धर्मम् , भोजयति बटुमोदनम् , जल्पयति मैत्रं द्रव्यम् , अध्यापयति बटुं वेदम् , शाययति मैत्रं चैत्रः। गत्यर्थादीनामिति किम् ? पाचयत्योदनं चैत्रेण मैत्रः न्यादिवर्जनं किम् ? नाययति भारं चैत्रेण, खादयत्यपूपं मैत्रेण, आदयत्योदनं सुतेन, हाययति चैत्र मैत्रेण, शब्दा ययति बटुं मैत्रेण, क्रन्दयति मैत्रं चैत्रेण ॥ ५॥ . भक्षेर्हिसायाम् । २ । २।६। भक्षेहिसार्थस्यैवाणिकर्ता णौ कर्म स्यात्। भक्षयति सस्यं बलीवान मैत्रः। हिंसायामिति किम् ? भक्षयति पिण्डी शिशुना ॥६॥ वहेः प्रवेयः । २ । २ । ७। - वहेरणिक्कर्ता प्रवेयो णौ कर्म स्यात् । वाहयति भारं बलीवर्दान् मैत्रः। प्रवेय इति किम् ?, वाहयति भारं मैत्रेण ॥७॥ ह-क्रोनवा । २ । २।८।। हृक्रोणिकर्ता णौ कर्म वा स्यात् । विहारयति देशं गुरुं गुरुणा वा, आहारयत्योदनं बालं बालेन वा, कारयति कटं चैत्रं चैत्रेण वा ॥ ८॥ दृश्यभिवदोरात्मने । २ । २ । ९ । दृश्यभिवदोरात्मनेपदविषयेऽणिक्कर्ता णो कर्म वा स्यात्। दर्शयते राजा भृत्यान् भृत्यैर्वा, अभिवादयते गुरुः शिष्यं शिष्येण वा। आत्मन इति किम् ? दर्शयति रूपतकर्क रूपम् ॥९॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy