________________
[६४] हैमशब्दानुशासनस्य
लुगस्यादेत्यपदे । २ । १ । ११३ । , अपदादावकारे एकारे च परेऽस्य लुक् स्यात् । सः, पचन्ति, पचे । अपद इति किम् ? दण्डानम् ॥ ११३॥
डित्यन्त्यस्वरादेः । २ । १ । ११४ । . स्वराणां योऽन्त्यस्वरस्तदादेः शब्दस्य डिति परे लुक स्यात् । मुनौ, साधौ, पितुः ॥ ११४॥ ..
अवर्णादश्नोऽन्तो वाऽतुरीङयोः । २।१। ११५। . सावर्जादवर्णात् परस्यातुः स्थानेऽन्तो वा स्यात्, ई-योः । तुदन्ती, तुदती कुले स्त्री वा । एवं-भान्ती, भाती। अवर्णादिति किम् ? अदती । अश्न इति किम् ? लुनती ॥ ११५ ॥
यशवः । २ । १। ११६ । श्याच्छवश्च परस्याऽतुरीङयोः परयोरन्त इत्यादेशः स्यात् ।। दीव्यन्ती, पचन्ती ॥ ११६॥
दिव औः सौ । २। १ । ११७। दिवः सौ परे औः स्यात् । द्यौः ॥ ११७ ॥
उः पदान्तेऽनूत् । २ । १ । ११८ । पदान्तस्य दिवउ स्यात् । अनूत्, स तुदी? न स्यात्। युभ्याम्, धुषु । पदान्त इति किम् ? दिवि । अनूदिति किम् ? धुभवति ॥ ११८ ॥
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीय- . स्याध्यायस्य प्रथमः पादः समाप्तः ॥२॥ १॥