SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिः [६३] . विदुष्यः, विदुषा, विदुष्मान् । अणिक्यघुटीत्येव ? विद्वयति, विद्वस्यति, विद्वांसः ॥ १०५ ॥ श्वन-युवन-मघोनो टीस्याद्यघुटस्वरे व उः।२।१।१०६। ___ इयां स्याद्यघुटूस्वरे च श्वनादीनां व उः स्थात्। शुनी, शुनः । अतियूनी, यूनः । मघोनी, मघोनः । ङीस्थाद्य बुट्स्वर इति किम् ? शौवनम् , यौवनम् , माघवनम् ॥१०६॥ लुगातोऽनापः । २ । १ । १०७ । आवर्जस्यातोडीस्यायघुटस्वरेलुक् स्यात्। कीलालपः। हाहे देहि। अनाप इति किम् ? शालाः ॥ १०७॥ अनोऽस्य । २ । १ । १०८ । ङीस्याद्यघुट्स्वरेऽनोऽस्य लुक् स्यात् । राज्ञी, राज्ञः। ॥१०८॥ ईडौ वा । २ । १ । १०९ । ईकारे डौ च परेऽनोऽस्य लुग्वा स्यात् । साम्नी, सामनी । राज्ञि, राजनि ।। १०९ ॥ षादि-हन-धृतराजोऽणि । २ । १ । ११०। षादेरनो हनो धृतराज्ञश्चातोऽणि प्रत्यये लुक् स्यात् । औक्ष्णः, ताक्ष्णः, भ्रौणघ्नः, धार्तराज्ञः ॥ ११ ॥ नव-मन्तसंयोगात् । २ । १ । १११ । वान्तान्मान्ताच संयोगात्परस्यानोऽस्य लुग्न स्यात्। .. पर्वणा, कर्मणी ॥ १११ ॥ हनो नो नः । २ । १ । ११२ । हन्तेईनो नः स्यात् । भ्रूणघ्नी, घ्नन्ति । न इति किम् ? वृत्रहणौ ॥ ११२ ॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy