________________
[६२] हैमशब्दानुशासनस्य निशः निशाः । आसनि आसने ॥ १०॥ दन्तपादनासिकाहृदयासृगयुषोदकदोर्यकृच्छकृतो दत्पन्नसहृदसन्यूषन्नुदन्दोषन्
यकञ्छकन् वा । २। १ । १०१ । - शसादौ स्यादौ दन्तादीनां यथासंख्यं दत् इत्यादयो वा स्युः। दतः, दन्तान् । पदः, पादान् । नसा, नासिकया। हृदि, हृदये, अस्ना,असृजा।यूष्णा, यूषेण । उदूना,उदकेन। दोष्णा, दोषा। यक्ना, यकृता । शक्ना, शकृता ॥१०१॥ यस्वरे पादः पदणि-क्य-घुटि । २ । १ । १०२ ।
णि-क्य-घुट्वले यादौ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् ।वैयाघ्रपद्यः, द्विपदः पश्य । पादयतेः क्विपि? पाद् । पदी कुले। यस्वर इति किम् ? द्विपाभ्याम् । अणिक्यघुटीति किम् । पादयति । व्याघ्रपाद्यति, द्विपादौ ।
उदच उदीच । २ । १ । १०३ । अणिक्यघुटि यस्वरे उदच उदीच् स्यात् उदीच्यः,उदीची। अणिक्यघुटीत्येव ? उदयति, उदच्यति, उदश्चः, उदच इति किम् ? नि मा भूत्, उदश्चा, उदश्च ।। १०३ ॥ ___ अच्च् प्रागदीर्घश्व । २ । १ । १०४ । . ___ अणिक्यघुटि यस्वरादौ प्रत्ययेऽच् चः स्यात्, प्राक्स्वरस्य दीर्घः। प्राच्यः, दधीचा। अणिक्यघुटीत्येव ? दध्ययति, दध्यच्यति, दध्यश्चः । अचिति किम् ? नि मा भूतः, साध्वश्चा ॥ १०४॥
क्वसुष्मतौ च । २ । १ । १०५।. अणिक्यघुटि यस्वरे मतौ च प्रत्ययेक्वसू उष् स्यात्।