SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ____ स्वोपज्ञलघुवृत्तिः [६१] हे दाम !, हे दामन् ! ॥ ९३ ॥ मावर्णान्तोपान्तापञ्चमवर्गान मतोर्मो वः ।२।११९४ । __मावर्णी प्रत्येकमन्तोपान्तौ यस्य तस्मात् पञ्चमवर्जवर्गान्ताच नाम्नः परस्य मतोर्मो वः स्यात् । किंवान् , शमीवान् , वृक्षवान् , मालावान , अहर्वान , भास्वान्, मरुत्वान् ॥ ९४॥ . नाम्नि । २।१ । ९५ । संज्ञायां मतोर्मोवः स्यात् । अहीवती मुनीवती नद्यौ ॥ ९५ ॥ . चर्मण्वत्यष्ठीवचक्रीवतकक्षीवद्रुमण्वत् । २ । १।९६ । . एते मत्वन्ताः संज्ञायां निपात्यन्ते । चर्मण्वती नाम नदी। अष्ठीवान जानुः, चक्रीवान् खरः, कक्षीवान् ऋषिः, रुमण्वान् गिरिः ॥ ९६ ॥ उदन्वानब्धौ च । २ । १ । ९७ । अब्धौ जलाधार नाम्नि च मतो उदन्वान्निपात्यते । उदन्वान घटः, उदन्वान् समुद्रः, ऋषिः आश्रमश्च ।।९७।। राजन्वान सुराज्ञि । २ । १ । ९८ । .' सुराजकेऽर्थे राजन्वान् मतौ निपात्यते । राजन्वान् देशः, राजन्वत्यः प्रजाः ॥९८ ॥ नोादिभ्यः। २।१ । ९९ । जादिभ्यो मतोर्मो वो न स्यात् । ऊर्मिम्मान् , दल्मिमान इत्यादि ॥ ९९ ॥ मास-निशासनस्य शासादौ लुग्वा । २।१।१०० शसादौ स्यादावेषां लुग्वा स्यात् । मासः मासान् ।
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy