________________
[६०] हैमशब्दानुशासनस्य यज-सृज-मृज-राज-भ्राज-भ्रस्ज-वश्व-परिवाजः
शः षः। २ । १ । ८७ । यजादीनां धातूनां च-जो शस्य च धुटि प्रत्यये पदान्ते च षः स्यात्। यष्टा, देवेट, स्रष्टा, तीर्थसृट, माष्टी, कंसपरिमृद्, राष्टिः, सम्राट्, भ्राष्टिः, विभ्राट्, भ्रष्टा, धानाभृट् ,ब्रष्टा, मूलवृद्, परिवाद, लेष्टा,प्रष्टा, शब्दप्राट् । यजादिसाहचर्याच्छोऽपि धातोरेव स्यात् । इह मा भूत्, निजभ्याम् । चज इत्येव ? वृक्षवृश्चमाचष्टे वृक्षव् ॥ ८७ ॥
संयोगस्यादौ स्कोर्लक् । २ । १ । ८८ । धुप्रत्यये पदान्ते च संयोगादिस्थयोःस्कोलक् स्यात् । लग्नः, साधुलक, वृक्णः, मूलवृद्, तष्टा, काष्ठतट् ॥८८॥
पदस्य । २ । १ । ८९ । पदस्य संयोगान्तस्य लुक् स्यात् । पुमान् , पुंभिः, महान् । पदस्येति किम् ? स्कन्त्त्वा ॥ ८९ ॥
रात्सः । २ । १ । ९०। पदस्य संयोगान्तस्य योरस्ततःपरस्य सस्यैव लुक्स्यात्।चिकीः, कटचिकीः। स एवेति किम् ?ऊ, न्यमार्ट ।।९०॥
नाम्नो नोऽनहः। २ । १ । ९१ । पदान्तेनाम्नो नस्य लुक् स्यात्। स चेदह्नो न स्यात् । राजा, राजपुरुषः । अनह्न इति किम् ? अहरेति ॥ ९१॥
नाऽऽमन्त्र्ये । २ । १ । ९२ । आमच्यार्थस्य नाम्नोनस्य लुक् न स्यात्। हे राजन्! ॥१२॥
क्लीबे वा । २ । १ । ९३ ।. आमच्यार्थस्य नाम्नः क्लीबे नस्य लुग्वा स्यात् ।