________________
स्वोपज्ञलघुवृत्तिः [५९] ग्राहिषीढ्वम् , ग्राहिषीध्वम् । अनायित्वम् अनायिध्वम् । नायिषीढ्वम् , नायिषीध्वम् । अकारिद्वम् , अकारिध्वम् । अलाविढ्वम् , अलाविध्वम् । जगृहिध्वे, जगृहिवे । आयित्वम् , आयिध्वम्। हान्तस्थादिति किम् ? घानिषीध्वम् , आमिषीध्वम् ॥ ८१॥
हो धु.-पदान्ते । २ । १ । ८२ । धुटि प्रत्यये पदान्ते च हो ढ् स्यात् । लेढा, मधुलिद गुडलिण्मान् । धुट्पदान्त इति किम् ? मधुलिहौ ॥ ८२ ॥
भ्वादेर्दादेर्घः । २ । १ । ८३ । भ्वादेर्धातोर्यो दादिरवयवस्तस्य हो धुटि प्रत्यये परे पदान्ते च घः स्यात् । दोग्धा, धोक्ष्यति, अधोक्, गोधुक् । भ्वादेरिति किम् ? दामलिट् ॥ ८३ ॥ : मुह-द्रुह-ष्णुह-ष्णिहो वा । २ । १ । ८४ ।
एषां हो धुटि प्रत्यये पदान्ते च घ् वा स्यात् । मोग्धा मोढा । उन्मुक् उन्मुट्। द्रोग्धा द्रोढा। मित्रध्रुक्। मित्रधुन् । स्नोग्धा स्नोढा। उत्स्नु उत्स्नुक् । स्नेग्धास्नेढा । चेलस्निक् चेलस्निट् ॥ ८४ ॥
नहाहोर्द्ध-तौ । २ । १ । ८५ । नहेग्रस्थानाहश्च धातो) धुटि प्रत्यये पदान्ते च यथासंख्यं ध-तौ स्यताम् । नद्धा, उपानभ्याम् आत्थ ।।८५॥
च-जःक-गम् । २ । १ । ८६ । . धुटि प्रत्यये पदान्ते च च-जोः क-गौ स्याताम्। वक्ता
वाक्, त्यक्ता, अर्द्धभाक् ॥८६॥