________________
[५८] हैमशब्दानुशासनस्य ग-ड-द-बादेश्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः
स्वोश्च प्रत्यये । २।१ । ७७ । गडदबादेश्चतुर्थान्तस्यैकस्वरस्य धातुरूपशब्दावयवस्यादेश्चतुर्थः स्यात् । पदान्ते सादौ ध्वादौ च प्रत्यये । पर्णघुट्, तुण्डिभमाचक्षाणः तुण्ढिप् । एवं गड़प, धर्मभुत्, निघोक्ष्यते, न्यघूढ्वम्, धोक्ष्यते, अधुग्ध्वम् , भोत्स्यते, अभूद्ध्वम् । गडदबादेरिति किम् ? अजञ्ज । एकस्वरस्येति किम् ? दामलिट् ॥ ७७ ॥
धागस्त-थोश्च । २ । १ । ७८। धागश्चतुर्थान्तस्य दादेरादेर्दस्य तथोः मध्वोश्च प्रत्यययोः परयोश्चतुर्थः स्यात्। धत्ता, धत्थः, धत्से, धध्वे। तथोश्चेति किम् ? दध्वः। चतुर्थान्तस्येत्येव ? दधाति ॥७८॥
अधश्चतुर्थात् तथोर्धः । २ । १ । ७९ । चतुर्थात्परयोर्धारूपवर्जाद्धातोर्विहितयोस्तथोधः स्यात्। अदुग्ध, अदुग्धाः। अलब्ध, अलब्धाः । अध इति किम् ? धत्तः, धत्थः। विहितविशेषणं किम् ? ज्ञानभुत्त्वम् ॥७९॥ नाम्यन्तात् परोक्षाद्यतन्याशिषो धो ढः ।२।१।८०।
रान्तानाम्यन्ताच धातोः परासां परोक्षाद्यतन्याशिषां धोढः स्यात् । तुष्टुवे, अतीम्, चेषीवम्, तीषर्षीढ्वत्। र्नाम्यन्तादिति किम् ? अपरध्वम् , आसिध्वम् ॥ ८० ॥
हान्तस्थाचोड्भ्यां वा । २ । ९ । ८१ । हादन्तस्थायाश्च पराओरिटश्च परासां परोक्षाद्यतन्याशिषां धो द् वा स्यात् । अग्राहिद्वम् , अग्राहिध्वम् ,