________________
सम्पादनम् |
[ १३
अध्यात्मस्येव कोशानामनुशासनं चक्रे । एकक एवायमाचार्य अनेकाचार्यसाध्यं कार्यजातं चक्रिवान्, अत एवैनं प्राज्ञाः 'कलिका लसर्वज्ञम् ' आम्नायिसुः ।
अस्य सीमातिलङ्घिनी प्रतिभाः महान् ग्रन्थराशिः; महान् ग्रन्थराशिः पवित्रं चरित्रम् धर्षैौदार्यपुरस्सरं कार्य महीयसामपि चेतस्विनां चेतांसि चमत्करोति ।
एतस्याचार्यस्य चरित्रविषये व्याकरणादिसाहित्यविषये च वि स्तरात् सप्रमाणं लेखितुमस्मत्सविधे समुदारं साधनं विद्यते, परन्तु गौरवाद् विभ्यद्भिरस्माभिर्बत जन्मादिसमोल्लेखमेव विलिख्यात्र तुष्यते, प्राप्तऽवसरेऽन्यदा विस्तरा लिखिष्यते ।
श्री हेमचन्द्रसूरे विक्रमसं० ११४५ कार्तिकी पूर्णिमायां जन्म, ११५० माघशु० १४ साधुदीक्षा, ११६६ वैशाखतृतीयायाम आचार्यपदम्, १२२९ वैक्रमे वर्षे च निर्वाणमभूत् ।
आचार्यधुर्यस्यास्य श्रीरामचन्द्रादयः शिष्या अपि विशिष्टग्रन्थकाराः शिष्टमान्या मान्यचरित्रकीर्त्तयश्च बभूवुरिति विदाङ्करोतु कोविदावलिः ।
सम्पादनम् ।
अयं ग्रन्थः पुरा श्रीयशे । विजयग्रन्थमालया प्राकटयं निन्ये । परन्तु तत्राssवृत्तौ मूलग्रन्थ एव मुद्रितः, परिशिष्ट प्रस्तावनाविषयानुक्रमादि तत्र किमपि वैशिष्टथं नासीत् । गीतकीर्तिश्रीविजयधर्मसूरिपादानां प्रयासेन तेषां भक्तः श्रीसतीशचन्द्र विद्याभूषणनामा महान् पण्डितो राजकीय कलकत्तामहाविद्यालये Calcutta University संस्कृतपरीक्षायां श्वे० जैनव्याकरणपरीक्षां नियोज्य तत्रैनं ग्रन्थं मध्यमायां नियोजितवान् । प्रभुतप्रचारादस्यानुपलब्धिर्जाता ।