SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ [ प्रस्तावना । विद्याप्रचाराधतानवद्यमतिभिर्व्यक्तवक्तृत्वलेखनशक्तिभाग्भिः पूज्यश्रीविद्याविजयैरस्य पुनःप्रकाशनार्थ अमदावादनगरस्थ श्रीआनन्दजीकल्याणजीसभाकार्यवाहका उपदिष्टास्तैरुपदेशः प्रमाणीकृतः । ततः पूज्यैरस्य नूतनपद्धत्या सम्पादनं मह्यमादिष्टम् । अनुग्रहेण समं मया तेषामादेशः स्वीकृतः। . अत्र मूलपाठस्तु पूर्वप्रकाशितपुस्तकादेव गृहीतः । तत्र यो यः पाठोऽशुद्धोऽसम्बद्धश्च प्रतिभातोऽस्माकं स स हैमबृहद्वृत्तिवृहन्यासलघुवृत्तिहस्तलिखितप्रत्यादीनां ग्रन्थानां पर्यालोचनया शोधितः । क्वापि तत्पार्श्वे एव ( ) इतिचिह्नान्तर अस्मन्मतिकल्पितः शुद्धपाठोऽलेखि । शीघ्रबोधार्थ सन्धिविधटनं समासेऽसमासेऽपि च यथावश्यकं विवक्षातोऽकारि । बालबोधार्थ सरल 'बालटिप्पणं' समासतो यथावश्यकं मया कृतम् । एवमन्यदपि यद् यदावश्यक प्रतिभातं तत् तद् व्यंधायि । शिष्टछात्राणां तुष्टयेत्र सप्तपरिशि ष्टानि योजितानि । __ खंडानगरादवाप्तहस्तलिखितप्रतिद्वयात् पाठान्तराणि गृहीत्वात्र तुर्ये परिशिष्टे सम्पादितानि । तयोरेकं पुस्तकं ४९ पत्रात्मकमस्ति तत्प्रान्ते च " हीररत्नसूरिशिष्यलब्धिरत्नसिद्धिरत्नपठ. नार्थम्" इति लिखितमस्ति । द्वितीयं चाष्टपत्रात्मकं मञ्जुलाक्षरमस्ति, तस्मात् कलावतां लाभाय तदेकपत्रस्य यन्त्रात् प्रतिलिपी (ब्लॉक) कारिता, सा चात्र पुस्तके नियोजिता। द्वयोः प्रत्योः क्रमशः 'क' 'ख' इति संज्ञे निर्धारित स्तः। एतद् द्वयमपि कवि राजोदयरत्नोत्तरपरम्पराशिष्यभाग्यरत्नयतिर्मह्यं प्रदत्तवान् एतदर्थ तस्मै धन्यवादं वितरामि । अत्र समग्रे ग्रन्थे मया ये ग्रन्था उपयुक्तास्तस्कृत्प्रकाशकानामनुग्रहं मन्ये । विषयानुक्रमकारिणं विद्वद्वर्य श्रीरामगोपालाचार्य च बहुमन्ये। .
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy