________________
१२ ]
- [प्रस्तावना । ____ " इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ........" ___अल्पीयसा समेणन श्रमेण च संस्कृतव्याकरणस्य समासाद्
निपुणं स्फुटमामूलं ज्ञानमवाप्तुमिच्छतामियं आधुनिका ग्रन्थाः। श्रीहेमचन्द्राचार्यकृता स्वोपज्ञलघुवृत्तिरतीवो.
पयुक्ता, विस्तरबोधार्थ च बृहद्वतिरुपयुक्ता, नापरे हैमव्याकरणस्य वृत्त्यादिग्रन्थाः । साम्प्रतं केचन पल्लवग्राहि पाण्डित्येनात्यल्पपरिश्रमेण च पण्डितप्राप्यां कीर्तिमवाप्तुं मिथ्यालालसया हैमसूत्रोपरिष्टान्नवा वृत्तीरकाधूः, परन्तु सावधानं समालोचितासु तासु हैमचन्द्रवृत्तिगताः प्राविण्यसारल्यगाम्भीर्यगुणा नैव . दरीदृश्यन्ते । सर्वत्र पर्यायशब्दापात्रात् ; केषाञ्चित् च प्रसिद्धानुपयुक्तोदाहरणरूपानां भेदाद् हैमवृत्तिद्वये पिष्ट एव पदार्थः तासु पिष्यते; नूतनविशिष्टावश्यकार्थस्तु न समर्थ्यते, तेन तादृशवृत्यादिग्रन्था न विद्वद्योग्या न च छात्रोपभोग्या भवन्ति, प्रत्युत तैवथैव बत! धनहानिः वेलाक्षयश्च प्रजायते, न च तादृग्ग्रन्थकारवैयाकरणस्य यशो. ऽप्यवाप्यते इति दृष्ट्वा दूयते सोपहासमस्मन्मानसम् । अस्ति चेत् वैयाकरणत्वं स्वस्मिन् तदा हैमवृत्याधुपरि हैमसूत्रवृत्याद्यर्थसाधकपो षकाऽऽलोचकाष्टीकाटिप्पणवार्तिकादिग्रन्थाः सरलसुन्दरार्थवत्या भाषयाऽवश्यं लेखनीयाः, येन स्वकीया कीर्तिः; परोपकारः; साहित्य सौहित्यं चेत्यखिलं संपद्यतेति मामकं विनम्र मतमस्ति ।
__ श्रीहेमचन्द्राचार्यः। अस्य सिद्धहेमचन्द्रशब्दानुशासनस्य कर्ता श्रीहेमचन्द्र सूरिराचार्याणां धुर्यः, धीमतां धौरेयः; वाग्मिनां वरेण्यः; पण्डितम ण्डलमण्डनं चाऽऽसीत् । अनेन व्यकरणस्येव काव्यस्य, काव्यस्येव छन्दसः, छन्दस इव न्यायस्य, न्यायस्येवाऽध्यात्मस्य शास्त्रस्य,