SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ श्री हेमचन्द्राचार्यः ] [99 चं महार्षिणा हेमचन्द्रेण बहूनि वैदिकबौद्धजैनग्रन्थ- ग्रन्थकाराणां मतानि नामानि चोल्लिखितानि, बहूनां मतानां कालिदासादि प्रयोगाणां चाssलोचना चक्रे । सूत्रवृत्यादिषु च यथाssसं गौरवदोषस्त्यक्तः । लघुवृत्तिः । अत्र मुद्रिता 'लघुवृत्तिः' सूत्रकर्त्रा हेमचन्द्रर्षिणैव विरचिता । अस्य प्रमाणं षट्सहस्र लोकसख्यमुच्यते । बृहद्वृत्ताविवाऽत्राऽपि समस्तानि हैमसूत्राणि समासतः प्रयोगपुरस्सरं सरलभाषयाऽऽचार्येण व्याख्यातानि । बृहद्वृत्तिरचनाऽनन्तरं समासात् तत्सारांशभृताया अस्या लघुवृत्तेः साधारणलोकबोधार्थ निर्माणं कृतम् तेन सिद्धराज - जयसिंहस्य मृत्योः (वि. सं. १९९९) प्रागेवेयं लघुवृत्तिरपि पूर्ति प्राप्तेति सम्भाव्यते । अष्टमाध्याये प्राकृतादिभाषार्थं तु वृत्तिद्वयं हेमसूरिणा न कृतमिति संभाव्यते, यतस्तत्प्रान्ते “....... स्वोपज्ञशब्दानुशासनवृत्तावष्टमस्याध्यायस्य चतुर्थः पादः समाप्तः " (पृ. १७६ प्रो. पी. एल. वैद्यसम्मादितावृत्तिः) वृत्तेर्विशेषणं किमपि न दृश्यते, मुद्रिता अष्टमाध्यायवृत्तिश्च सप्ताध्यायलघुवृत्तेः सकाशात् विस्तीर्णा विशदप्रभृतोदाहरणा चास्ति । किञ्च तत्प्रान्ते “समाप्ता चेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिकानामेति ( पृ० १७६ ) इति लिखितमस्ति । 'तत्वप्रकाशिका' च बृहद्वत्तेनमास्तीतिपण्डित भगवानदाससम्पादित है मन्यासाद् ज्ञायतेऽतो निर्वि शेषणात् अष्टमाध्याये तु ऐकैव वृत्तिमचन्द्राचार्येण कृतेति सम्भाव्यतेऽस्माभिः । इयं लघुवृत्तिः सप्ताध्यायेषु हेमचन्द्राचार्येणैव कृता इत्ययमर्थस्तु १ गूर्जर विद्वदभुषणं श्रीकेशवलालध्रुवाख्यो विद्वान् वक्ति यद् 'अष्टमाध्यायेsपि हेमचन्द्रीयं वृत्तिद्वयं सम्भाव्यते, या च मुद्रिता वृत्तिः, सा लघुरस्ति अष्टमाध्यायबृहद्वृत्ति पुस्तकं खम्भात भाण्डागारेऽस्तीति श्रूयते इति
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy