SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १०] [प्रस्तावना। पुस्तकानां विंशतिः (२०) प्रेषिताः । स्वाधीनप्रदेशेषु हैमव्याकरणमेवाध्यापयितुमाज्ञा राज्ञा प्रसारिता । अष्टव्याकरणवेदी काकलाख्यो प्रख्यातो वैयाकरणो हैमव्याकरणाध्यापकत्वेन नियुक्तः। परीक्ष्य च हैमव्याकरणपाठिभ्योऽसकृत् पुरस्कारा राज्ञा दीयन्ते स्म । अनेन व्याकरणेन गूर्जरस्य राजा प्रजाश्च गौरवं मेनिरे । एवं श्रीहेमचन्द्रजीवनकाल एवास्य प्रचारः सर्वत्र सम्पन्नः । हेमचन्द्राचार्यनिर्वाणपश्चादद्यावधि सहस्रशः पाठिभिरेतत् पठितम् । ग्रन्थकारैः स्वग्रन्थेषु प्रमाणितम् । कविभिः तुष्टुवे । बुधैर्बहुमेने । इदं हैमव्याकरणमुद्दिश्य नैकैवैयाकरणैरनेके व्याकरणग्रन्था रचयाश्चक्रिरे । साम्प्रतमपि कलकत्ताराजकीयमहाविद्यालयपरीक्षायामन्यत्र चेदं पाठ्यते । आचार्यहेमचन्द्रस्य प्रतिभा सर्वतोव्यापिन्यासीत्, प्रस्तुतव्या करणस्य च सर्वाङ्गपूर्णकरणे राज्ञ आचार्यस्य च मनोरथो बभूवातोऽन्यान्यपि व्याकरणानि निपुणं विलोक्य स्वप्रतिभया यथाई तेषां वैशिष्टयं संजग्राहाचार्यः। स्वव्याकरणस्य बृहद्वृत्तौ स्त्रोपज्ञ वृहन्न्यासे १. प्रभावकचरित्रे हेमचंन्द्रसूरिचरित्रम् । २. सारस्वतीय चन्द्रकीर्तीयटीका-विद्यगोष्ठी -वाक्यप्रकाशोत्तराध्ययनकमलसंय ___ मीयटीका-स्याद्वादमजदी-वाग्भट्टालङ्कार-हीरसौभाग्य-विजयग्रशस्ति-ति....... लकमलरीटीकाप्रभृतिषु । .. ३. भ्रातः । संवृणु प्राणिनिप्रलपितं, कातन्त्रकन्था वृथा । मा काषीः कटु शाकटायनवचः, शूद्रेण चान्द्रेण किम् ? । कः कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥ - प्रबन्धचिन्तामणिः पृ. ६१ ४. हैमव्याकरणन्यास-टीकादि-न्यायसंग्रह-क्रियारत्नसमुच्चय-हैमकौमुदी-(चन्द्र प्रभा)-हैमलघुप्रक्रिया-सिद्धसारस्वतादयः पश्चाशत्तोऽप्यधिका ग्रन्था हैमव्याकरणोपरि निष्पन्नाः । ६. Pro. S. K. Belvalkar.
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy