SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ [५४] हैमशब्दानुशासनस्य धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये । २ । १ । ५० । ___ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासंख्यमियुवौ स्याताम् । नियो, लुवो, अधीयते, लुलवुः । प्रत्यये इति किम् ? न्यर्थः, ल्वर्थः, नयनम् , नायक इत्यादौ परत्वाद् गुण-वृद्धी ॥ ५० ॥ .. इणः ।२।१ । ५१। . इणो धातोः स्वरादीप्रत्यये परे इय् स्यात्। यापवादः। ईयतुः ईयुः ।। ५१ ॥ संयोगात् । २१ । ५२। धातोरिवर्णोवर्णयोः संयोगात्परयोः स्वरादौ प्रत्यये परे इयुवौ स्याताम् । यवक्रियौ, कटावौ, शिश्रियुः॥५२॥ भूश्नोः । २। १ । ५३। भ्रश्नोरुवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे उक् स्यात् । ध्रुवौ, आप्नुवन्ति । संयोगादित्येव? चिन्व. न्ति ।। ५३ ।। स्त्रियाः। २ । १ । ५४ । स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् । स्त्रियौ । अतिस्त्रियौ ॥५४ ॥ ___ वाऽम्शसि । २ । १ । ५५। स्त्रिया इवर्णस्याम्शसोः परयोरिय् वा स्यात् । स्त्रियं, स्त्रीम् । स्त्रियः, स्त्रीः ॥ ५५ ॥ योऽनेकस्वरस्य । २ । १ । ५६ ॥ अनेकस्वरस्य धातोरिवर्णस्य स्वरादौ प्रत्यये परे यः स्यात् । चिच्युः, निन्युः। पतिमिच्छति पत्यिं ॥५६॥
SR No.002220
Book TitleSiddh Hemchandra Vyakaranam
Original Sutra AuthorN/A
AuthorHimanshuvijay
PublisherAnandji Kalyanji Pedhi
Publication Year
Total Pages1054
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy