________________
स्वोपज्ञलघुवृत्तिः [५५] स्यादौ वः । २ । १ । ५७ । अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । वसुमिच्छन्तौ वस्वो। स्यादाविति किम् ? लुलवुः ॥५७।।
क्विवृत्तेरसुधियस्तौ । २ । १ । ५८ । क्विवन्तेनैव या वृत्तिः समासस्तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोरिवर्णोवर्णस्य स्वरादौ स्यादौ परे तो य व इत्येतौ स्याताम् । उन्न्यौ, ग्रामण्यो, सुल्वः, खलप्वः । क्विविति किम् ? परमौ नियो परमनियो । वृत्तेरिति किम् ? नियो कुलस्य । असुधिय इति किम् ? सुधियः ॥ ५८ ॥ .
हन्पुनवर्षाकारैर्भुवः । २ । १ । ५९। ___हनादिभिः सह या क्वृित्तिस्तत्सम्बन्धिन एव भुवोधातोरुवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । इन्भ्वौ, पुनभ्चों, वर्षाभ्वः, कारभ्वः । दृनादिभिरिति किम् ? प्रतिभुवौ ॥ ५९॥ - ण-षमसत्परे स्यादिविधौ च । २।१ । ६० ।
इतः सूत्रादारम्य यत्परं कार्य विधास्यते तस्मिन् स्याद्यधिकारविहिते च पूवस्मिन्नपि कर्तव्ये णत्वं षत्वं चासदसिद्ध स्यात् । एतत्सूत्रनिर्दिष्टयोश्च ण-षयोः परे घे णोऽसन् । पूष्णः, तक्ष्णः, पिपठीः, अर्वाणो, सप्पीषि। असत्पर इत्यधिकारो "रात्सः" इति यावत्। स्यादिविधौ चेति तु "नोादिभ्य" इति ॥६॥
तादेशोऽपि । २ । १ । ६१ । केनोपलक्षितस्य तस्यादेशःषादन्यस्मिन् परेपूर्वस्मिंश्च