________________
स्वोपज्ञलघुत्तिः [५३] असकौ, हे असौ! हे असकौ । त्यदामित्येव ? अत्यदाः ॥४३॥
असुको वाकि । २ । १।४४ । त्यदां सौ परे अदसोऽकि सत्यमुको वा स्यात् । असुकः असकौ, हे असुक ! हे असको ! ॥ ४४ ॥
मोऽवर्णस्य । २ । १ । ४५। अवर्णान्तस्य त्यदामदसो दो मः स्यात् । अमू नरौ स्त्रियो कुले वा । अमी, अमूदृशः । अवर्णस्येति किम् ? अदः कुलम् ॥ ४५ ॥ .
वादौ । २ । १ । ४६। . अदसोऽद्रावन्ते सति दोर्वा स्यात् । अदमुयडू, अमुद्रयङ्, अमुमुयङ्, अदद्रयङ् ॥ ४६॥
__ मादुवर्णोऽनु । २ । १ । ४७। __ अदसो मः परस्य वर्णस्य उवर्णः स्यात् । अनु-पश्चाकार्यान्तरेभ्यः । अमुम्, अमू, अमुमुयङ् । अन्विति किम् ? अमुष्मै, अमुष्मिन् ॥ ४७ ॥
.. प्रागिनात् । २ । १ । ४८॥ '' अदसो मः परस्य वर्णस्येनादेशात् प्राक् उवर्णः स्यात् अमुना । इनादिति किम् ? अमुया ॥४८॥
बहुष्वेरीः । २ । १ । ४९ । बह्वर्थवृत्तेरदसो मः परस्य एत ई: स्यात् । अमी, अमीषु । एरिति किम् ? अमूः स्त्रियः । मादित्येव ? अमुके ॥ १९ ॥